This page has not been fully proofread.

नवमोऽवः ।
तूर्ण भुमोच तदुपयेथ लब्धसंज्ञो
 
भोक्तुं कृतान्त द्रव नोलनलौ स दध्यो ॥ ३३ ॥
दम्भोलि: कुम्भकर्ण गिरिमिव तरसाऽपातयज्जानुवन्धं
कण्ठे गाढ़ विष्टत्य स्वभुजगुरुमदं जाम्बवान् उग्ररोपः ।
निर्मक्ती तोवभूतामभवदय मरुत्पुष्पवृष्टिस्तदने
शूलाघातेन रोपाद्वजनिचरभटम्तं निरस्योपतम्थे ॥ ३४ ॥
 
[३८५]
 
7
 
स्विनी मेघमाला तत्सहचर: तत्सहायवानित्यर्थः, (श्राज्ञया तत्-
क्षणं जलधरमालामानयन् सन्द्रित्यय, तस्य कुम्भकर्णस्य उपरि
अमृतवारिधारा: सुधोपमजलधारा: तूर्णं शोधं मुमोच ववर्ष
इत्यर्थः । श्रथामृतधारावर्यणानन्तरं स कुम्भकर्ण: लव्धसंज्ञः
प्राप्तचेतन : सन् कृतान्त इव नोलनलौ भोक्तुं खादितुं दध्यौ
चिन्तयामास । वसन्ततिलकं वृत्तम् ॥ ३३ ॥
 
दम्भोलिरिति । उग्ररोपः तोच्णकोपः जास्ववान् दम्भोलि:
वज्ञ: गिरिमिव पर्वतमिव स्वभुजयोर्गुरुमहान् मदो गर्यो यस्य
तं कुम्भकर्णं जानुबन्धं जानुभ्यां बड्डा, गमुलप्रत्ययः, कण्ठे
गाढ़ं यथा तथा विधृत्य श्राक्रम्य तरमा वलेन अपातयत्
भूमौ पातितवान् । ती नोलनली निर्मुक्तो कुम्भकर्णस्य चाक्रम-
यादिति भावः, प्रभूतां संवृत्तौ । ग्रयानन्तरं तदई तप्य
जाम्बवतः अङ्गे मरुतां देवानां पुष्पवृष्टिः अभवत् अपतदि-
त्वर्थः । ततो रजनिचरभट : राक्षमवोर: कुम्भकर्ण: रोपात्
क्रोधात् शूलाघातेन शूलप्रहारेण तं जाम्बवन्तं निरस्य निरा-
कृत्य उपतस्थे उत्तस्थावित्यर्थः । कराठे गाढ़ विष्टत्येत्यत्र
कण्ठ गाढ़ विरयेति, उग्ररोष इत्यव उग्रवेग इति, शूलाघाते-
नेत्यत्र गुल्फाघातेनेति, रजनिचरभट इत्यत्र रजनिचरवर इति,
म - ३३