This page has not been fully proofread.

नवमोऽडः ।
 
तं ह्दैव प्रविष्टा गिरिवरकुहरं त्रस्तचित्ताः कपोन्द्राः
केचित् पादान्तरन्तःप्रचलितपवनान्दोलिताः खे चलन्ति ।
केचिद्दोर्दण्डचण्ड भ्रमण निपतिताः शोषितान्यु हिरन्ति
प्राणान् केचित्यवीराः कथमपि जहति स्फोतफुत्कारभिन्नाः ॥२७॥
 
[३८१]
 
दोर्घमिति भावः, नयनकमलयोः वाष्पम् मयुजलम् उत्सृज्य
त्या आत्मने वारि दवा लेन भाविनः प्रेतस्य स्वस्य
 
तर्पणं विधायेति भावः, अपुनर्भावि पुनर्भवरहितम् अत एव
सकरुणं सशोकं यथा तथा लढाया उपगूढ़म आलिङ्गनं कृत्वा
विशूलम् अस्तं नीत्वा गृहीत्वा प्रलये कल्पान्ते यो हुरुवहः
अग्निः तस्य अङ्गाग्वत् प्रज्वलितदग्धकाठवत् ये नेत्रे ताभ्याम्
अवको: युक्तः सन् इत्यर्ध पुनरपि समरप्राङ्गणे युद्धभूमौ
अवतीर्थ: उपनीतः । प्रन्नयहुतवहाद्वारनेवावको इoa
प्रन्नयहुतवहाद्वारनेवो विकर्ण इति पाठान्तर ससोचोनम् ।
स्रग्धरा वृत्तम् ॥ २६ ॥
 
·
 
इत्यत्र
 
तमिति । कपोन्द्राः वारनसेनापतयः, केचिदिति शेषः,
तं कुम्भकर्ण दृष्ट्दैव वस्तुचित्ताः भीतान्तःकरणा: मन्तः गिरि-
वरस्य सुवेलस्य कुहर गहरं प्रविष्टाः । केचित् वीरा, पादयो
चरणयो, कुम्भकर्णस्येति भानः, अन्तरन्तः अभ्यन्तरातू अभ्यन्त
रात् प्रचलितेन पादविक्षेपवेगात् प्रचलितेनेति भावः,
पवनेन
आन्दोलिताः उत्क्षिप्ता: मन्तः इत्यर्थः खे आकाशे चलन्ति
उड्डोवन्ते इत्यर्थः । केचित् दोर्दण्डाभ्या चण्डं यत् भ्रमणं
विजन्ताद भ्रमधातोरनट्प्रत्ययः, भ्रामणमित्यर्थः, तेन निपतिताः
भ्रामयात् परं निपतिता सन्तः इति भावः, शोषितानि