This page has not been fully proofread.

[२७५]
 
नवभोऽहः ।
 
यद्यपि चितिपालानामाज्ञा सर्वत्रगा स्वयम् ॥
तथापि शास्त्रदीपेन चरत्येव मतिः सताम् ॥ १६ ॥
इति वा तथेत्याह दशाननः ।
शास्त्रनि:संशया वाचः सतां व्यसनदुर्लभाः ॥ १७ ॥
रावणः । उत्क्षिप्तस्फटिकाचलेन्द्र शिखर ये पोविष्टष्टाइदै:
एभिः पोनवरैः सुरासुरजयप्राप्त प्रतिष्ठैर्भुजैः ।
 
त्यव भोषणेति पाठे विलासेन भीपणाः भुजम्तम्भा यस्य तथोक्ता-
येत्यर्थः, तुभ्यं नमः । शार्दूलविक्रीडितं वृत्तम् ॥ १५ ॥
 
यदीति । यद्यपि चितिपालानां राज्ञाम् आज्ञा स्वयं
सर्वत्र गच्छतीति सर्वत्रगा सर्वस्थानगामिनीत्यर्थः, न क्कचित्
व्याहव्यते इति भावः, तथापि अव्याहताच त्वेऽपि सतां
माधूनां राज्ञामिति शेष: मति: प्रज्ञा शास्त्रदीपेन चरत्येव
शास्त्रमनुसृत्य प्रवर्त्तते इत्यर्थ: । चरत्येव मतिः सतामित्यत्र
मञ्चरन्त्यवनोश्वरा इति पाठान्तरम् । अनुष्टुप् वृत्तम् ॥ १६ ॥
 
इतीति । दशानन रावण: इतत्यं भ्रातुः कुम्भकर्णस्य
वचः वाक्यं श्रुत्वा तथा तदेव कर्त्तव्यं, शास्त्रानुसारेणैव मतां
चलितव्यमित्यर्थः, इति-बाह उवाच । किन्तु सतां साधूनां
शास्त्रेण नोतिशास्त्र पयालोचनयेत्यर्थः, नास्ति संभयो द्वैधबुद्धि-
यसु तथाविधा वाचः वाक्यानि व्यसनेषु विपत्सु दुर्लभाः,
दुष्पाषा इत्यर्थ: (विपक्सु तथोपदेष्टारः विरला इति भावः,
व्यमनदुर्लमा इत्यत्र कस्य न वल्लभा इति पाठान्तरम् । धनु-
टुप् वृत्तम् ॥ १७॥
 
उत्क्षिप्तेति । उत् क्षिप्त: उड़तः यः स्फटि-
काचलेन्द्रः कैलासाद्रिः तस्य शिखरगोभिः शृङ्गाग्रभागे-