This page has not been fully proofread.

अष्टमोऽहः ।
 
रामोऽयं रविदंशजो दशरथप्रापालचूड़ाम:
पुत्रः सर्वमहीखरो नरगणै: मंपूजितो रक्षयात् ।
सोताहारिलतान्तको निजभुजमीढ़ प्रतापानलः
वैलोक्यस्य हितार्थसाधनविधौ जानामि नैवं कथम् १ ॥ २१ ॥
 
[३५५]
 
दृष्ट्वा राघवमेव राक्षसवन स्वच्छन्ददावानलं
जानक्यां निजवल्लभस्य परमं प्रेमाणमालोक्य च ।
काङ्क्षन्ती मुहुरात्मपचविजयं भगञ्च सुग्धा मुहुः
धावन्तो मुहुरन्तरालपतिता मन्दोदरी सुन्दरो ॥ २२ ॥
 
पई मान्द्रे कर्दमे, यत इत्यानु न शकते इति भावः, निमग्नासि
पतितासि । उपजाति वृत्तम् ॥ २० ॥
 
राम इति । अर्थ रामः रवैः सूर्यस्य वंशजः कुलज: दश-
रथ एवं मापालानां नृपागा चूड़ामणिः सम्राट तस्य पुत्रः,
सर्वस्या मद्याः पृथिव्या ईश्वर प्रभुः, नरगणैः जानववृन्दैः
- रक्षणात् सुष्टु पालनात् पूजित प्रशंमित इत्यर्थः, सोता-
हारिगा: रावणस्य कृतान्त एव कृतान्तकः शमन इत्यर्ध.,
वैलोक्यस्य विभुवनस्य हितार्थानां साधनविधी सम्पादन-
व्यापारे निजभुजाभ्यां खत्राहुभ्यां प्रौढ़ः प्रकर्षेण धृतः प्रतापा
नलः येन तथोक्तः, अतः एवम् इत्यम्भूतम्, एनमिति पाठा
न्तरं, कथं न जानासि ? । शार्दूलविक्रीडितं वृत्तम् ॥ २१ ॥
 
हवेति । सुन्दरी मन्दोदरी राघवं रामं राक्षसवनेषु
खच्छन्दः स्वेच्छाचारी, स्वेच्छाप्रत इत्यर्थ, दावाननः तं दृष्ट्वा
निजवल्लभस्य रावणस्य जानक्यां परमम् उत्कटं, दुर्निवार मिति
भाव, प्रेमाणम् अनुरागम् आलोक्य च मुहुः पुन: पुन: आत्म-
पाणां राचसानां विजयं तथा भङ्गं पराजयञ्च, विपचादिति