This page has not been fully proofread.

अष्टमोऽद्धः ।
 
विभवे भोजने दाने तिष्ठन्ति प्रियवादिनः ।
विपत्तावागतायान्तु दृश्यन्ते खलु सज्जनाः ॥ ७ ॥
अग्रे प्रस्तुतनागानां मूकता परमो गुणः ।
तथापि प्रभुभक्तानां मौखदेवमुच्यते ॥ ८ ॥
यैरेव सुतिभिः स्वामी प्राप्यते व्यसनावटम् ।
पञ्चान्सूकत्वमापन्नैरुदत्तुं नैव शक्यते ॥ ८॥
 
[१४७]
 
इति भावः, वाचस्तु वाक्यानि तु श्रीरक्षणे श्रियाः रक्षणे
प्रमाणं हेतुरित्यर्थः । स्वाम्येष्ववेत्यव हर्म्येष्व वेति पाठान्तरम् ।
अनुष्टुप् वृत्तम् ॥ ६ ॥
 
विभवे इति । विभवे अभ्युदये, भोजने दाने च प्रिय-
वादिनः, बहव इति शेषः, तिउन्ति स्थिति कुर्वन्ति । विपत्ती
व्यसने आगतायान्तु उपस्थितायान्तु संजनाः खलु साधव
एव दृश्यन्ते, न त्वन्ये इति शेषः । सन्जना इत्यत्र साधव इति
पाठान्तरम् । अनुष्टुप् वृत्तम् ॥ ७ ॥
 
अग्रे इति । प्रस्तुतः प्रवृत्तः, उपस्थित इति यावत् नाशो
येषां तथाभूताना विपनानामित्यर्थः, अग्रे समक्षं मूकता
वर्षानुचारको भूकः तस्य भावः तूयोभाव इत्यर्थः, परमो
महान् गुणः धम्मः, व कथायां तस्याप्रियत्वे तेन सह अका-
रगावैरं स्यादिति भावः । तथापि इत्यं गतेऽपि प्रभुभक्तानां
स्वामिभक्तनराणां मौखर्थ्यात् वाचालत्वात् एवम् उच्यते इत्यं
कथ्यते । अनुष्टुप् वृत्तम् ॥ ८ ॥
 
येरवेति । येरेव जनैः खामी प्रभुः स्तुतिभिः प्रशंसावादः,
प्रियोक्तिभिरित्यर्थः, व्यसनावटं विषटुरन्धं, व्यसनावटमित्यव
व्यसनाटवीति पाठान्तरम् ; प्राप्यते, नीयते, तैरेव मूकत्व-