This page has not been fully proofread.

अष्टमोऽङ्कः ।
 
एप योलहनूमता विरचित योभन्महानाटके
वोर श्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः ।
मिश्रयीमधुसूदनेन कविना सन्दर्भ्य सज्जीकृते
 
यातोऽड्डः किल सप्तमोऽप्यतिमहान् दूताङ्गदो नामतः ॥ ८० ॥
 
[३४३]
 
अष्टमोऽङ्कः ।
 
अथ युद्धोपक्रमः ।
 
काकुत्स्थ: सविशेषमङ्गदमुखादाकर्ण्य लङ्कापते-
वृत्तं सम्यगलं कुलञ्च विभवं चक्रे विमर्शं मुडु. ।
लाध्योऽयं दशकन्धरो मम रिपुष्ट्वा च मधिक्रमं
वैदेहो न समर्पिता यदमुना मुक्ता च नाहङ्गतिः ॥ १ ॥
 
-
 
अथेदानीं मुदिता. हृष्टा : सेना एव वायवः तैः प्रेयमाणं नुद्य-
मानं पतङ्गरूपिणं तं रावणं तपशीर्ष निकत्तगिरमं विधेहि
कुरु । मालिनी वृत्तम् ॥ ७८ ॥
 
एप इति । दूत: चङ्गदः यस्मिन् सः ॥ ८० ॥
इति योजीवानन्दविद्यासागरभट्टाचार्यविरचिता
महानाटकस्य सप्तमाडव्याख्या समाप्ता ॥ ७ ॥
 
काकुत्स्थेति । काकुत्स्थः रामः अद्भदस्य मुखात् लङ्का-
पते: रावणस्य सविशेषं सविस्तरं द्वत्तं चरितं कुलं विभवञ्च
सम्यक् अलमतिशयेन, विस्तरेणेत्यर्थः, आकर्ण्य मुला मुहुः
पुन: पुन: विमर्गं विचारं चक्रे कृतवान्, अयं दशकन्धरः रावणः
मम लाध्यः प्रशंसनीयः, रिपुः शत्रु, यत् यस्मात् अमना
रावणेन मम विक्रमं सेतुबन्धनादिकमिति भावः, दृष्ट्वा च