This page has not been fully proofread.

[३३८]
 
महानाटकम् ।
 
ते भूमी पतितः पुनर्नवभवानालोक्य मूर्खोऽपरान्
याचिष्यन्त इमे हि नो वयमिति प्रोत्याट्टहासं व्यधुः ॥७०॥
 
अङ्ग । आस्ता मस्तकहोमविक्रमकया पौलस्त्य । विस्तारियो
देहं किन्न निपातयन्ति दहने वैधव्यभीताः स्त्रियः १ ।
?
कैलासोदरणेन भारवहन प्रौटिस्त्वयाविष्कृता
 
तूर्णं वर्णय किष्व किञ्चिदपर यत् पौरुपस्यास्पदम् १ ॥७१॥
 
अहमहमिकया प्रहार निकन्तनम् अभजन प्रापु, ते भूमौ
पतिताः पुन, नवभवान् नूतनोत्यवान् अपरान् मूर्ध्न शिरासि
आलोक्य इमे मूडान, याचिष्यन्ते हि प्रार्थयिन्ते एव, वरं
पुरारेरिति शेष, न वय याचियामहे इति प्रोत्या याचा
दैन्यमतीव दु सधैँ मानिनामिति भावः अहहासम् उञ्चैस्य
व्यधुः कृतवन्त । शार्दूलविक्रीडितं वृत्तम् ॥ ७० ॥
 
श्रास्तामिति । हे पौलस्त्य ! विस्तारिणी विस्तारवतो,
वृहतीत्यर्थः, मस्तकाना गिरसां होमे यो विक्रमः पौरुपं तस्य
कथा यस्ता विष्ठ, स्त्रियः नार्यः वैधव्यात् स्वामिवियोग-
जनितकशात् भोता तत्क्लेगं मोठ मशक्क्रुबत्य इति भाव
देहं दहने अग्नी किं न निपातयन्ति ? अपितु पातयन्त्ये
वेत्यर्थः, वन्तु शत्रुपराजयभीत्या तथा शतवानिति किं
तव पौरुपमिति भाव। त्वया कैलासस्य पर्वतस्य उद्दरणेन
भारवहनस्य मौढ़ि: सामर्थ्यम् आविष्कृता प्रकटिता व इतर
जनस्येव भारवहने मामध्यमस्ति, तव पौ किमिति भावः
 
-
 
यत् पौरुषम्य पुरुषकारस्य भास्पदं स्वानं, वोय्येप्रकटनस्थानमिति
यावत् अपरम् अन्यत् किश्चित् पस्ति पेदिति शेषः, तत् वर्णय
प्रकटय । गार्टलविक्रीडितं वृत्तम ॥ ७१