This page has not been fully proofread.

सप्तमोऽद्धः ।
 
राव । मरुत्वद्दम्भोलिचणघटितधोरखयघुना
 
निसर्गोदग्रेण प्रसभमुरमा व्याप्तगगनः ।
श्रियं देवद्रोच निजभुजवनोद्दामकरिणी-
मयं कुर्वन् वीर ! स्मरसि कथमासोद्द★मुखः ? ॥ ६८ ॥
येऽहंपूर्विकया प्रहारमभजन् मां छिन्धि मां छिन्धि मां
छिन्धीत्युक्तिपराः पुरारिपुरतो लङ्कापतेर्मोलयः ।
 
[३१७]
 
पुनः नैव चणं स्थित असि, तत् तस्मात् हे लईश्वर ! अखिलं
समस्तं, सर्वथेति भावः, सानं मुञ्च त्यज, वालिन: मत्पितुः,
त्वज्जयिन इति भावः, वधं श्रुत्वा सोताम् अर्पय, रातसकुलं
रक्ष, दासत्वं भृत्यत्वम् अकुरु खोकुरु च, रामचरणे प्रणि-
पत इत्यर्थ: । शार्दूलविक्रीड़ितं वृत्तम् ॥ ६८ ॥
 

 
मरुत्वदिति । हे वीर ! अयं दशमुखः रावणः मरुतः
सन्त्यस्येति मरुत्वानिन्द्रः, "इन्द्रो मरुत्वान् मघवा " इत्यमरः, तस्य
दम्भोलिर्वचं तेन क्षणं योगः, आइतिरिति यावत्, सेन घटितः
जनित: घोरः• तीव्रः श्वयधुः स्फोतता यस्य तेन निसर्गोग्रेग
स्वभावोवर्तन उरसा वचसा व्याप्तम् आक्रान्तं गगनं येन तथा
भूतः सन् देशानञ्चतीति देवद्रोचो ता देवसम्बन्धिनोमित्यर्थः,
श्रियं लक्ष्मों निजभुजा एव वनानि तेषाम् उद्दामकरिण मत्त-
हस्तिनीं कुर्वन्, (यथा करियो वनमाश्रयति तहत् निजभुज-
वनाश्रितांकरिणीं विदधते कथं कोशः आसीत् तत् स्मरसि
किम् ? वाक्यार्थ: कम् । शिखरिलो वृत्तम् ॥ ८॥
 
ये इति । ये लड्डापतेः समेति शेष, मौलयः शिरांसि
मां छिन्धि मां छिन्धि मां छिन्धि इति उक्तिपरा: नदन्त
इत्यर्थः, पुरारिपुरतः पुराईरस्य समचम् अहंपूर्विकया
 
म - २८