This page has not been fully proofread.

सप्तमोऽहः ।
 
[२३३]
 
रामोऽपि किं स मनुज ? पयोधिमध्ये बबन्ध यः सेतुम् ।
तेऽपि च ननु किं कपयो ? येषां लङ्कादहनचरितम् ॥६२॥
पोहातमृत हनूमञ्चरितो रावणः । (क)
 

 
येनादाहि ममाग्रतः पुरमिदं, चाची बली लीलया
येनामारि च पर्वतस्य कुहरं चाभारि वैरिव्रजैः ।
 
काले विपरीतवुद्दिरिति भावः, रामोऽपि मानुषः किम् ?
रम्भापि तदाख्या सुरसुन्दरी अपि अबला बलहीना सामान्या
नारी किम् ? कृतं सत्यं युगं सामान्यतः समयविशेषः किम् ?
कामोऽपि धन्वी धनुर्धरः साधारण इति भाव, किम् ? गङ्गा
च नदी सामान्या किम् ? सुरगज: गजः किम् ? उच्चैश्रवाः
इयः अश्वः किम् ? रेइति नोचसम्बोधनं वैलोकोपु त्रिभु-
वनेषु प्रकट: प्रसिद्धिं गतः प्रभावविभवः महिमा समृद्धिर्यस्य
तथाभूतः हनूमान् कपिः किम् ? एते रामादयः नैव साधारण
इति भावः । शार्दूलविक्रीड़ितं वृत्तम् ॥ ११ ॥
 
राम इति । यः पयोधिमध्ये मागरमध्ये सेतुं वबन्ध, स
रामोऽपि मनुजः मनुष्यः किम् ॥ येषां लवादहनचरितम्,
अस्ति इति शेषः, तेऽपि च रुपयः मामान्यवानराः किम् ?
दुर्बुद्धिस्त्वं यत् राममेनं मनुष्य हनूमदादोंञ्च वानरान् गण-
यसौति भावः । आर्या वृत्तम् ॥ ६२ ॥
 
(क) उपोधातेति । उपोहातेन प्रसङ्गक्रमेण स्मृतं हनूमत-
यरितं येन तथोक्तः ।
 
येनेति । हे अद्भद ! येन मम अग्रतः समक्षम् इदं पुरं
लत्यर्थः, ग्रदाहि दग्धं, येन बली घलवान् श्रतः मत्कुमार:
लीलया अवहेलया प्रमारि अघानि च वैरिव्रजैः शत्रु निवई: