This page has not been fully proofread.

[३२८]
 
महानाटकम् ।
 
वीणां संवृणु नारद ! तुतिकथावादैरलं तुम्बुरो !
सोताकामनभल्लसन्दितवपुः सुस्थो न लङ्केश्वरः ॥ ५३ ॥
सुस्थो न लङ्गेश्वर इति प्रच्छादयितुं स एव कथयति ।
प्रतापं संसोढ़, रविरपि दशास्यस्य न विभु
निमज्जत्युन्मन्जत्य परजलधी पूर्वजलधौ ।
 
'वारिनिधिः समुद्र: बद्ध: । इति भङ्गदोक्तिः । इति श्रुत्वा
रावणः निरुत्तरः प्रतिवादवर्जितः अभवत् । शार्दूलविक्रीड़ित
 
वृत्तम् ॥ ५२ ॥
 
ब्रह्मविति। हे ब्रह्मन् । एप समय: अध्ययनाय वेद-
पाठाय न, वहि: तूष्णीं स्यीयतां, जड़मते ! वृहस्पते ! स्वल्पं
शनैरिति यावत्, जल्प चालप, एपा वज्जियः इन्द्रस्य सभा न,
तवैव तब स्वाच्छन्द्यमिति भावः । हे नारद । वीणां संत्रणु
संस्तम्भय, हे तुम्बुरो। तुतिकथावादः अलं निष्प्रयोजनम् ।
-सीतायाः कामनमेव भल्लः अस्तविशेषः, तेन सोतागत-
कामेनेति भावः, सन्दितं बद्धम्, चाक्रान्तमित्यर्थः, वपुः गरोगं
यस्य तथोक्तः, लङ्गेश्वरः न सुस्यः न सुष्टु स्थित इत्यर्थः, सुस्व
तायामेव युष्माभिरयमुपासितव्य इति भावः । वोग्णां मंहग्णु
इत्यत्र स्तोत्रं संहरेति, स्तुतिकथावादे रित्यत्र स्तुतिकथालापैरिति,
सोता हल्लकभल्लमन्दितयपुरिति तथा सौतारक्षकमलभन्नहृदयः
इति च पाठाः । सीतायाः रत्नकः मोमन्तः, "शिर: सिन्दूरमरणिः
स्त्रीणां में रक्षकः स्मृतः" इति हलायुधः । म एव भल्लः परू
विशेषः तेन भग्न व्यथितं हृदयं यस्य तथाभूत इत्यर्थः ।
शार्दूलविक्रीड़िसं वृत्तम् ॥ ५२ ॥
 
प्रतापमिति । रविरपि तपनोऽपि दमास्यस्य रावपस्य