This page has not been fully proofread.

[११८]
 
महानाटकम् ।
 
अङ्ग । परदारापहरये न श्रुता या दशानन ! ।
दृष्टा दूतपरित्नाणे साधोस्ते धर्मशीलता ॥ २६ ॥
राव । बधः सेतुर्यदि जलनिधी वानरैस्तावता किं ?
किं वल्मोका: चितिधर निभाः न क्रियन्ते पिपोलैः ? ।
लगा दग्धा यदपि कपिना स प्रभावः किलाग्ने,
शौर्याय निजभुजनयैः (बलै :) किं कृतं रामनाम्ना १॥३७॥
अपिच । परिमि ( चि) समहिमानं क्षुद्रमेनं समुद्रं
चितिधररचनाभिः कोऽयमुत्तीर्थं गर्वः १ ।
 
परेति । हे दशानन परदारापहरणे परस्त्रोहरणे या
न श्रुता, तवेति शेषः, दूतपरित्राणे दूसरचणे, दूतस्य प्राणदण्डा.
करणे इत्यर्थः, साधो धार्मिकस्य ते तव सा धर्मशोलता
धार्मिकता दृष्टा । अनुष्टुप् वृत्तम् ॥ २६ ॥
 
बद्ध इति । यदि वानरैः जलनिधी सेतुः बद: भावता
तत इत्यर्थः, किम् ? न किमपि पौरुषमिति भावः । पिपोलेः
कोटविशेषैः चितिधरनिभाः पर्वतसदृशाः स्का: मृतिका
स्तपा इत्यर्थ: किं न क्रियम्से १ अपितु क्रियन्त एवेत्यर्थः ।
कपिना वानरेश, हनूमतेत्यर्थः, यदवि लड़ा दग्धा, म: दहन
मित्यर्थः, विधेयप्राधान्यात् पुंस्त्वम् अग्ने प्रभावः किल
शक्तिरेव । अतः रामनाम्ना रामाध्येन, तापसेनेति शेष:, निज-
भुजनये: स्वाइनीतिभिः, निजवाहुनले रिति, निजभुजजये इति
च पाठान्तरं किं मौर्व्याययम् अद्भुत शौर्यं कृतं १ प्रकटित-
मित्यर्थः, न किमपोत्यर्थः । मन्दाकान्ता हत्तम् ॥ ३७॥
 
परिमितेति । परिमितः परिच्छिमः, परिधिर्तति पाठे
परिचितः विदित- घस्यगण्डपानादिति भायः, महिमा