This page has not been fully proofread.

सप्तमोऽङ्कः ।
 
राव । श्रुतमस्ति, विभीषणश्च नः
 
सहज सम्प्रति राममाश्रितः ।
 
[३१३]
 
कति सन्ति न रामनामका: ?
कतमस्तेषु म यस्त्वयोच्यते ? ॥ २७ ॥
अङ्ग । जघान युधि ताड़कादिकमसोमरचः कुलं,
बभन्न धनुरैश्वरं, परिवभूव तं भार्गवम् ।
स तालतरुसप्तकं सपदि कृत्तवानम्बुधिंध
बबन्ध, न तथापि ते परिचितो रघुणां पतिः १ ॥ २८ ॥
 
मपि त्वां हित्वा त्यक्ता नक्तञ्चरचमूनां राक्षससेनानां विरामं
विध्वंसनं थोरामं भजते सेवते । विशेषेण सामान्य समर्थनरूपो-
ज्यन्तरन्यासः । शिखरियो वृत्तम् ॥ २६ ॥ +
 
श्रुतमिति ।
 
नः अस्माकं सहजः सहोदर: विभीषणः
सम्प्रति राम राममेव तिः श्रुति एतदिति शेषः ।
रामनामकाः रामाख्याः कति न सन्ति ? बहवः सन्तोत्यर्थः ।
तेषु रामनामकेषु मध्ये, त्वया यः, राम इति शेष, उच्यते कथ्यते,
स कतम: ? । सुन्दरो वृत्तम्, "अयुजोर्यदि सो जगौ युजोः ।
सभरा लगौ यदि सुन्दरी तदा ॥" इति लचपात् ॥ २७ ॥
 
जघानेति ।
स रघूणा पतिः युधि युद्धे ताड़कादिकम्
असीम अरोपं, बहुसंख्यकमित्यर्थः, रचसा कुलं जघान
इतवान्, ऐखरं धनुः इरकार्मुकं बभड खण्डितवान्, तँ भार्गवं
परशरामं परिवभूव निर्जितवान्, सपदि सहसा, एकनैयोश्चमे
नेति भावः, तानतरूणां सप्तकं सप्त तालान् मायान्
छिदवान्, अम्बुधिं सागरं वबन्ध, तथापि ते तय परिचिती न
 
13-
म-२७