This page has not been fully proofread.

[३०६]
 
महानाटकम् ।
 
युद्धे सुष्यबलः सुरेष्वपि न मे कचिद्रिपून वारयन्
स्थाताऽह सबलो, यतः परबलं हन्ता ततो रावणः ॥ १५ ॥
भङ्ग । कृत्वा कचागतं त्वां कपिकुलतिलको बालिनामा बलीयान्
भ्रान्त्वा सप्ताब्धितीरे तदनु चरितवान् ध्यानसन्ध्यार्चनञ्च ।
बाणेनैकेन बिडो झटिति निपतितो रामचन्द्रस्य सोऽपि
त्यक्तासुस्तूर्णमागात् सुरपुरमधुना, मुञ्च लश ! गर्वम् ॥१६॥
 
गर्जन् सन् दृष्टः, (भिवसोति शेषः, मत्पुरतस्तव ईडगोहत्य प्रकटने
भोतिनैति भाव) लोनामा लोभिर्निचयैः कलुषोकते आते
इति यावत्, कर्णे अपि पुरा पूर्व न श्रावितः किल ? (ग्रहं
केनापीति शेष । खस्य रोमनिचयावतकर्थत्वात् स्वयं श्रवणे
सामध्ये विरहेऽपि अन्येनापि मदीया वार्त्ता त्वयि न थाविता
किम् ? इति भावः) । सुरेषु देवेषु अपि मध्ये कश्चित् युद्धे मे मम
तुल्यबलः न, अस्तीति शेषः, ग्रहं सबल, ससैन्यः सन् रिपून्
शत्रून् वाग्यन् निराकुर्वन् स्याता स्थितिशीलः, यतः अहं
परेषां बलं हन्ता घातकः, ततः कारणात् रावयति क्रन्दयति
रिपूनिति रावणः, यथार्थनामेति शेषः । शार्दूलविकोड़ित
 
वृत्तम् ॥ १५ ॥
 
कत्वेति ।
 
कपिकुलतिलकः वानरकुलश्रेष्ठ: बलोयान्
महाबलः बालिनामा, मत्पितेति शेष, त्वां कक्षागतं बाहुमूल-
निगड़ितं कृत्वा तदनु तदनन्तरं, सप्तानाम् भब्धीनां सागराणां
तोरे भ्रान्त्वा परिभ्रम्य ध्यानसन्ध्यार्चनं ध्यानं समाधानं, चित्तै-
काग्रामित्यर्थः, तेन सन्ध्यार्चनं सन्ध्याकालोचितं देवार्चनं चरित-
वान् कृतवांश्च । सोऽपि प्रसिद्धो वीरः बाली रामचन्द्रस्य एकेन
बाणेन शरेण विजः सन् झटिति निपतित भूमौ पतितः सन्