This page has not been fully proofread.

[३०४]
 
महानाटकम् ।
 
कस्त्व ? वन्यपतेः सुती, वनपतिः को वा ममाग्रे वद ?
देवाः शक्रपुरोगमा मम गृहे नित्यं वदास्ये स्थिताः ।
राम: किं कृतवान् कपोन्द्रपृथकै संलय रत्नाकरं ?
चेदायाति मदोयदर्पदहने स स्यात् पतङ्गोपमः ॥ १३ ॥
अङ्ग । रे रे रावण ! रावणानपि बहनेसान् वयं शत्रुमै
तेव्वे कः किल कार्त्तवीर्य नृपतेर्दोर्दण्ड पिण्डीकत:
 
प्रभावः न विदितः न ज्ञात, त्वयेति शेषः, यहा न विदितो
मयेति रावयोक्तिः । असो भार्गव: हैहयेन्द्रप्रभृतिनरपतेः
कार्त्तवीर्य प्रभृतिराजन्यस्य हन्ता । हैहयो वा कार्त्तवोर्यो वा
तथा वाहशप्रभाव इति भावः कः ? व्यक्त स्पष्टं जानोहि
विडि, य: कार्त्तवीर्यः त्वां सुचिरं सुदीर्घकालं क्रूरः दारुणः
कारानिकाय कारागारवासः तम् अगमयत् प्रापयामास,
येन रो पराजितः कारागारं नीतोऽसीति भावः । स्रग्धरा
वृत्तम् ॥ १२ ॥
 
:
 
कस्त्वमिति । त्वं कः १ वन्यानां वनचारिणां वानराणा-
मित्वर्थ, पतिः तस्य बालिन इत्यर्थः सुतः, अहमिति शेष । वन
पति बालो समाग्रे मत्समीपे को वा १ वद कथय, न कोऽपी-
व्यर्थ, श्रगण्य इति भाव, यत शक्रपुरोगमा: इन्द्रादय: देवा:
मम गृहे नित्यं सततं वस्य आत्मन, ममेति भाव, दास्ये
कैय्यै स्थिताः । रामः कपोन्द्रपृथकः वानरेन्द्र शिशुभि, सहेति
शेषः, रत्नाकर सागर मेल किं कृतवान् "न किमपि क
शयतीत्यर्थः । स आयाति प्रागच्छति चेत् तदा मदोयदर्पदहने
मसम्बन्धिनि दर्पाग्न पतङ्गोमः पतनिभ: स्यात् भवेत्.
मरिष्यतीति भावः । शार्टलविक्रीडितं वृत्तम् ॥ १३ ॥