This page has not been fully proofread.

प्रथमोऽसः ।
 
सुन्दस्त्रोदमनप्रमोदमुदितादास्थाय विद्योदयं,
रामः सत्यवतीसुतादथ गतस्तस्याश्रमं लोलया।
क्ल प्ते कोशिकनन्दनेन च मखे तत्रागतान् राक्षसान्,
हत्वामुमुचदाश भाविविदसौ मारीचमुग्राकृतिम् ॥ २४ ॥
 
[१७]
 
प्रार्थितः; यश एव धनं यस्य स यशोधन: यशोलिप्पु रिति
भावः, स नरपतिः राजा दुःखितः सन्, पुत्रवियोगादिति भावः,
तस्मै विश्वामित्राय सुतं रामं प्रादात् प्रदत्तवान् । सोऽपि
राम सौमित्रिणा सुमित्राया अपत्यं पुमान् तेन लक्ष्मणेनेत्यर्थ.,
अनुगतः समभिव्याहृतः सन् उच्चैर्महत्या मुदा हर्येण तं मुनिम्
अन्वगात् अनुजगाम । गार्दूलविक्रीडितं वृत्तम् ॥ २३ ॥
 
सुन्देति । सुन्दो नाम असुरः तस्य स्त्री ताड़का नाम
गन्धर्व्वकन्या अगम्त्यशाशात् राक्षसोभूता, तस्या दमनेन संहारण
य. प्रमोद आनन्दः तेन मुदितात् उल्लसितात् सत्यवतीमुतात्
सत्यवतो नाम गाधेः पवो तस्य मुतात् विश्वामित्रादित्यर्थ.,
विद्याना धनुर्वेदानामुदय आगमः तम् आस्थाय प्राप्य अथ
अनन्तरं तस्य कौशिकस्य आश्रम गतोऽसो राम. तत्र आयने
कोशिकनन्दनेन विश्वामित्रेध क्लो रचिते, प्रस्तुते इत्यर्थः, मखे
यज्ञे "यज्ञ. सवोऽध्वरो याग सप्ततन्तुर्मखः क्रतुः" इत्यमरः,
आगतान्, तदुध्वंसायेति भावः, राचसान् लोलया अनायासेन
इत्वा विनाश्य भाविवित् निमित्तभूतेमानेन मृगरूपेण
छलयित्वा रावण. सोता हरिष्यति ततोऽम्रो मया संहार्य इति
भविष्यज्ञ. सन् आश शोघ्र , तदानोमित्यर्थः, उग्रा भीपणा प्राकृति
र्यस्य तं मारीचम् असूमुचत् तत्याज, पारे समुद्र बाणेनैकेन
प्रचिचेपेति भावः । शालविक्रीड़ितं वृत्तम् ॥ २४ ॥