This page has not been fully proofread.

[३०२]
 
महानाटकम् ।
 
श्रङ्ग । हं हो पौलस्त्य सूना ! तव वनमयनस्यामजोऽहं सुवेनात्
 
संप्रातो रामदूतो. विसृज जड़मते ! जानकीं वाप्यसून् वा ॥८॥
चेनेकन गरेण सप्त निहतास्ताला धनुम्तवतं,
 
बडो वारिधिरेष तातमपि मे यः प्रापयत् पञ्चताम् ।
तद्भवं खलु विधि राजमपते सत्पादपद्मखल
डूलीपालिपरागपुञ्जकणिकाजाताहृदञ्चाङ्गदम् ॥ १० ॥
 

 
इत्यर्थः कस्य टून: ? किमर्थम् ? विस्पष्टं मुव्यक्तं यथा तथा,
वदेति शेषः । पिटपाना जगतां विजयिनं विजेतारमपि मा
त्वं उपाय मन्यसे गणयसि ? हो - पौलस्त्य सूनो ! पुलस्त्य
नन्दन । तव बलमयनस्य बलदर्पप्रशमयितु बालिन इत्यर्थः,
आत्मजः तनयः अहं सुवेलान् लगोपरिवर्त्तिनो गिरेः राम-
दूत: सन् सम्मास, त्वत्सकाथमिति शेषः । रे जड़मते !
मूदबुद्धे ! जानकीं वा असून् प्राप्पान् वा विसृज त्यज ।
स्रग्धरा वृत्तम्
 
?
 

 
येनेति । येन एकेन शरेण सप्त ताला: निहताः बिद्धाः,
 
तत् प्रसिद्धं धनुः ऐश्वरं कार्मुकमित्यर्थः, हतं खण्डितम्, एप
वारिधिः समुद्रः बदः, यः मे मम वातं पितरं बालिनमपि
पञ्चतां निधनं प्रापयत् नाशितवानित्यर्य, हे राक्षसपते ! तस्य
रामस्य भृत्यं तस्य पादपद्मभ्यः स्वलन्त्यः निर्गच्छन्त्यः या
धूलोनां पालयः समूहाः सा एव परागपुञ्जाः कौसुमरजश्चयाः,
"पराग: कौसुमं रजः" इत्यमरः तेषां कणिकाभिः जातम्
श्रदं भूषण विशेषः यस्य तं तञ्चरण रेणुरूषितबाहुमिति भावः,
अद्भदं तत्रामानं वानरं विद्धि खनु जानोहि एवेत्यर्थः । शार्दूल
 
विक्रीडितं इत्तम ॥ १० ॥