This page has not been fully proofread.

पठोऽडः ।
 
अनावसरे रावणचेष्टा ।
 
आदो जहास बहुविस्मयमाप मध्ये,
सेतोः समाप्तिसमये स निशाचरेन्द्रः ।
उद्भूतघम्मंघन निर्झरमिच्यमान
उत्पातवात हतपर्वतवञ्चकम्पे ॥ ८४ ॥
 
पापाणा: पयसि प्रबद्धवपुपस्तिष्ठन्ति केतुं गताः
श्रुत्वैवं वदतां दशाननधरः क्रुद्धः समुद्रं प्रति ।
धिक, त्वां नाम तवाम्बुधिः सलिलधिः पानोयधिस्तोयधिः
 
पायोधिर्जलधिः पयोधिरुदधिरां निधिर्वारिधिः ॥ ८५ ॥
 
[२८७]
 
आदाविति । स निशाचरेन्द्र: रावणः श्रादौ सेतुबन्धात्
प्रागित्वर्थः, जहास, (न कथमपि सागरः बन्धुं शक्यते हथा
प्रयास एषामिति धियेति भावः मध्ये (कथं-जले प्रस्तरलवन-
मिति) वहुरत्यन्तः विस्मयः तम् आप अतीव विस्मितवान्
इत्यर्थः । सेतोः समाप्तिसमये सम्पूर्णतायां सत्यामिति भावः,
-उद्भूताः धर्माः खेदा एव घन: मान्द्रा निर्झरा: तैः सिच-
मान: अतएव उत्पातवातेन हतः सञ्चालित यः पर्वतः तद्वत्
चकम्पे कम्पितवान् । उपमालङ्कारः । वसन्ततिलकं वृत्तम् ॥८४॥
 
पापाचा इति । पाषाणाः प्रस्तराः पद्यसि जले प्रकर्पेण
बद्धं संश्लिष्टं वपुः शरोरं येषां तयाभूत सेतुं गताः- सेतुभावेन
परिणता इत्यर्थः तिष्ठन्ति, वदता कथयतां जनानां, मुखा-
दिति शेषः, एवं श्रुत्वी इत्यमाक दशाननधरः रावणः समुद्रं
प्रति तव अम्बुधि:, सलिलधिः, पानोयधिः, तोयधि:, पाथो-
धिः, जलधि, पयोधिः, उदधिः, वारां निधिः, वारिधिः इति
नाम, लाम् एतब्रामधरमिति भावः, -धिक क्षुद्रे तापसेन