This page has not been fully proofread.

[२८४]
 
महानाटकम् ।
 
सुग्रीवः । क्रमचतुरकपोन्द्रेनीयमाने नगेन्द्रे
गिरिकुहर निवासा राघव ! त्वत्प्रसादात् ।
सुरकरिकर (पर) पेयां प्राप्य मन्दाकिनों खे
सुवलित करदण्डाः कुभिनोऽम्भः पिबन्ति ॥८॥
विभो । ये मज्जन्ति जले कियत्यपि चिरं ते प्रस्तरा दुस्तरे
मिन्धी हन्त ! तरन्ति राजसमयं सम्पादयन्तो भृशम् ।
नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुग्णा:
श्रीमहाशरथेरियं हि सहजा शक्तिः समुन्नीलति ॥८॥
 
सागरस्य तव प्रागवर्त्तित्वबोध इति निष्कर्षः । अनुष्टुप्
 
वृत्तम् ॥ ८७ ॥
 
क्रमेति । हे राघव ! क्रमचतुरा; उत्पतनपटवः कपोन्द्राः
वानरवोराः तैः नगेन्द्रे पर्वतयेठे नोयमाने सति गिरिकुहर-
निवासाः तत्पर्वतगुहावर्त्तिन इत्यर्थः कुम्भिन दन्तिन:
सुवलित: सुचालित: करदण्डः शुण्डादण्डः येः तथाभूताः सन्तः
तव प्रसादात् धनुग्रहात् से आकाशे सरकरिणां सुरगजानां
करपेयां शुण्डादण्डपानीयां मन्दाकिनों प्राप्य अग्भः जलं
पिबन्ति । मालिनी वृत्तम् ॥ ८८ ॥
 
ये इति । ये कियत्यपि स्वल्पेऽपोत्यर्थः, जले मज्जन्ति ते
प्रस्तराः दुस्तरं सिन्धौ भृशमत्यर्थं राक्षसानां भयं सम्मादयन्तः
सूचयन्तः सन्तः इत्यर्थः, चिरं तरन्ति प्लवन्ते हन्त खेटे, एसे
ग्रावणां प्रस्तराणां गुणा न, वारिधेः समुद्रस्य गुणा नं,
बानराणाञ्च गुणा न इयं हि श्रीमतो दाशरथे: रामस्य
सहजा स्वाभाविको शक्ति सामर्थ्य समुमोलति समुज्जृम्भते ।
पार्टलविक्रीडित वृत्तम ॥ ८८ ॥