This page has not been fully proofread.

पष्ठोऽध: ।
 
देव ! त्वत्तरुणप्रतापतप ( दह ) नज्वालावलोशोषिताः
सर्वे वारिधयस्तवारिवनितानेवाम्बुभिः पूरिताः ॥ ७० ॥
हनूमञ्चरितमपि स्तौति ।
 
ग्यः कृत्स्रो लोको, धनुरगपति फणिपतिः,
स्मरोन्मायी योधः, सरसिजभवः सारथिरपि ।
ग शौरिदेव ! त्रिपुरपुरटहने परिकरा:
कृता दग्धैकेन प्रभटमयलका हनुमता ॥ ७१ ॥
 
[२७५]
 
तरुणः प्रचण्ड : प्रताप एव तपन : सूर्य, दहनेति पाठे दहन:
अग्निः तस्य च्चालावनीभिः किरणराजिभिः शिखा श्रेणीभिर्वा
शोषिताः शोपं नीताः, (तव प्रताप : कविभिर्वर्णयितुमशक्य
इति भाव), तथा तव तरुणप्रतापतपनज्वालावलीशोषिताः
सर्वे वारिधयः समुद्राः तव अरिवनितानां शत्रुनारीणां नेवा-
म्युभिः पतिवियोगजनितायुभिः एव पूरिताः पुनः पूर्णतां
नीता: । मार्दूलविक्रीडितं वृत्तम् ॥ ७० ॥
 
रथ इति । हे देव ! त्रिपुरपुरदाहे त्रिपुरासुरनगरदाहे
तूत्रः समग्रः लोकः भुवनं रघ., अगपतिः शैलराजः धनुः,
फणिपतिरनन्तनागः ज्या मोर्वो, स्मरोन्मायो मदनान्तकः
हर इत्यर्य:, योधः योद्धा, वीर इत्यर्थः, सरसिजभवः ब्रह्मापि
सारथिः, शोरिः विष्णुः शरम् पते परिकरा उपकरणानि, ग्रामस
- निति शेषः, किन्तु एकेन - हनुमता साधनरहितेनैवेति भावः,
प्रभटमयलढा मऊटवोरयुता लड्डा दग्धा भस्मीभूता कृता
इत्यर्थ: । (श्रवोपमानात् त्रिपुरदाहिनो हरादुपमेयस्य हनूमतः
आधिक्य मिति व्यतिरेकालङ्कारः, "आधिक्य मुपमेयस्योपमाना.
नुरनताधवा । व्यतिरेकः - " इति लक्षगात् । शिखरियो
 
वृत्तम् ॥७१॥
 
·