This page has not been fully proofread.

पष्ठोऽङ्गः ।
 
पौलस्त्यः प्रविवेश विस्मित इव प्रत्येकमालोकयन् ।
सुग्रोवप्रमुखैरयं प्रतिपदं प्रत्युद्गमात् पूजितो
निर्व्याजं रघुनन्दनस्य चरणे चिक्षेप हस्तं शिरः ॥ ६० ॥
नृपतिमुकुटरत्न । त्वत्प्रयाण प्रगस्तिं
लवगभरनिमज्जदूभराक्रान्तभोगः ।
लिखति दगनट रुत्पतद्भिः पतद्भिः
जरठकमटभर्तुः कर्परे सर्पराजः ॥ ६१ ॥
 
[२६८]
 
दृट्वेति । श्रयं पौलस्त्यो विभोषग्यः वानरवाहिनीम् अनि
भृताहङ्कारहकारियों दृष्ट्वा लिखित इव चित्रित इव प्रत्येकम्
आलोकयन् पश्यन् प्रविवेश, शिविरमिति शेषः । ततः सुग्रीव-
प्रमुखैः सुग्रोवादिभिः प्रतिषधं प्रतिपदक्षेपमिति भावः, प्रत्युद-
गमात् एह्येहोति पूजितः सन् निर्व्याजम् अकपटं यथा तथा
रघुनन्दनस्य चरणे हस्तं शिरस चिक्षेप अर्धयामास । शार्दूल-
विक्रीड़ित वृत्तम् ॥ ६० ॥
 
नृपतोति । हे नृपतिमुकुटरत्न ! राजचूड़ामणे ! सर्पराज:
शेषनाग: प्रवगानां वानराणां भरेण निमज्जन् अधोगच्छन् यो
भूभरः पृथ्वोभरः तेन आक्रान्तः भोग: देह: फशमण्डलं वा
यस्य तयाभूतः सन्, "भोगः मुसे स्वयादिभृतावहेश्च फणकाययोः"
इत्यमरः, उत्पवेद्भिः भूभारोहरणार्थम् उन्नमभिः किन्तु पतद्भिः
अतिभारधारणाक्षमतया निपतद्भिः दशनटई: दन्तरूपपापाय-
दारणास्त्रभेदैः जरठः प्रतिजीर्ण: यः कमठभर्त्ता कूम्मराजः,
तदद्ध:स्थित इति भावः तस्य कर्परे. पृष्ठफलके, तव प्रयाणस्य
युद्दार्थ प्रस्थानस्य प्रशस्तिं प्रशंसावादं लिखति, यथा कोऽपि
कस्यापि महात्मनो राजचरितं चिरस्थायि भवितेति पाषा-
-