This page has not been fully proofread.

पठोऽड:
 
अथ रामलक्ष्मणयोरुक्ति प्रत्यक्ती ।
 
धर्मात्मा दशकन्धरात् वहिरभूत् कस्मादयं रावणात् ?
सम्भ्रान्तोऽविनयेन किं न कुरुते सुग्रीववहालिनः ।
रचोराजमहोदरस्य निभृतारम्भोऽपि सम्भाव्यते ?
किं कुम्म: भरणागतं रिपुमपि द्रुह्यन्ति नेवाकवः ॥ ५७ ॥
दृष्ट्वा वानरवाहिनोमनिमृताहङ्कारहवारिणी
 
शङ्कावान् स विभोषणः चणमभूदुदुर्वारदोर्विक्रमः ।
 
[२६७]
 
दूरवर्त्ती अवि, समोपस्थे किं तव्यमिति भावः, दूरस्थितत्वात्
महमा किमप्यनिष्टं कर्त्तुमत्तमोऽपीति तात्पर्यं) शद्वितन्यः हि
शङ्कास्थानमेवेत्यर्थः । अनुष्टुप् वृत्तम् ॥ ५६ ॥
 
धम्ममिति । अयं धम्मात्मा धार्मिक,यदीति शेष:, तदा दश-
कन्धरात् रावणात्, भ्रातुरिति शेषः, रावणदित्यत्र सोदरादिति
पाठान्तरम् ; कस्मात् किमर्थं वहिरभूत् विपदि बन्धुं तत्याजेति
भावः । इतिलक्ष्मणोक्तिः । अविनयेन दुराचारेण, रावणस्येति
भावः, सम्भ्रान्तः सम्यक् वस्त वालिन सुग्रोववत् किं न कुरुते ?
सुग्रोवो यथा बालिनस्वस्त तं परित्यज्य माम् आश्रितः तया
यमपि सम्भवतीति भावः । इति रामोक्ति। उचोराजस्य राजस
पते: महोदरस्य विभीषणस्वास्थ निभृतारम्भ: कूटकरणोपक्रम:
अपि सम्भाव्यते (@लेनास्मासु प्रविश्य गूढमनिष्टार्थमस्य एप
समुद्यम: सम्भवत्वपोति भावः । इति_लक्ष्मणोक्ति: किं कुम्म: ?
इच्वाकव: इच्वाकुवंभ्या रिपुमपि शत्रुमपि शरणागतं न द्रुह्यन्ति
न हिंमन्ति । इवि-यमोक्तिः । शालविक्रीड़ितं वृत्तम् ॥ ५७ ॥
 
दृष्ट्वेति । दुर्वारः दुर्लः दोर्विक्रमः भुजबनं यस्य तथोक्तः
स विभीषणः वानराणां वाहिनीं सेनाम् अनिभृतेन प्रकटिते-