This page has not been fully proofread.

प्रथमोऽहः ।
 
तेषां रामः कुशिकतनयमार्थितो यन्त्रसिद्धैत्र,
 
सातस्याज्ञां शिरसि विधलक्ष्मणेनानुयातः ।
पौरस्त्रीभिर्नयनकमलैः सादरं बोच्यमाणः,
क्रव्याटालो (नां ) निधनकुतुको यज्ञभूमिं प्रतस्थे ॥ १७ ॥
ततः श्रीरामचन्द्रे तपोवनं प्रविशति वैतालिकवाक्यम् ।
विद्या विशिष्टां विजयां जयाच, सम्प्राप्य सम्यड् ननु गाधिपुवात् ।
रचासि हन्तुं ऋतुबन्धुवन्धुः समागतः सम्प्रति रामभद्रः ॥ १८ ॥
 
[१३]
 
भरतशत्रुघ्नाः, वष्टधिरे इति शेषः । पूर्व्ववृत्तं शार्दूलविक्रीड़ितम्,
उत्तरं स्रग्धरारचितमिति द्रष्टव्यम् ॥ १५ ॥ १६ ॥
 
तेषामिति । तेषां चतुर्णां दाशरथानां मध्ये रामः यज्ञस्य
क्रतो: सिदै निर्विघ्नेन समाप्तायें कुभिकतनयेन विश्वामित्रेय
प्रार्थित:, राजानमिति शेषः, तातस्य जनकस्य दशरथस्य प्राज्ञां
"गच्छ विश्वामित्रेण सह अस्य यज्ञसिदये" इत्यादेशं शिरसि
मूईनि विदधत् दधानः लक्ष्मोन अनुयातः अनुगतः पौरस्लीभिः
पुरवासिनीभिर्नारोभिः नयनकमलैः नेवमरोज़ै. सादर मस्पृहं
वोच्यमाण: दृश्यमानः सन् ऋव्यादालोनां निशाचरसद्वानां
निधने बधे कुतुको कौतुकवान्, समुत्सुक इत्यर्थः, क्रव्यादानां
निधनकुसुकोति पाठे स एवार्थ:, यज्ञभूमिं विश्वामित्रस्य
यज्ञदेवं प्रतस्ये प्रचचाल । मन्दाक्रान्ता वृत्तं, "मन्दाक्रान्ताम्बुधि-
रसनगमभनौ तो गयरमम्" इति तल्लक्षणात् ॥ १७ ॥
 
विद्यामिति । सम्प्रति क्रतंवो बन्धवः मित्राणि येषां ते
ऋतुबन्धवः यज्ञशीला मुनय इत्यर्थः, तेया बन्धुः प्रियः, सहाय
इत्यर्थः, रामभद्रः गाधिसुतात् विश्वामित्रात् विशिष्टाम् इत्-
छष्टां विजयां नयाच क्षुधाहारिणों