This page has not been fully proofread.

[२६४]
 
महानाटकम् ।
 
ज्ञात्वासौ वत। रावणानुजबलो लडां कलङ्काङ्किताम्
आशामस्य विचारयन बहुविधं न्यक्कर्वतः श्रेयसाम् ।
इत्यन्विष्य विसृज्य मानमधुना त्यक्ताग्रजं नग्नवद्
यात. मानुचरस्तथैव झटिति श्रीरामसानिध्यकम् ॥ ५१ ॥
ततश्चतुर्मिं सह मन्त्रिपुत्त्रैरुपेत्य रच कुलधूमकेतुम् ।
लगामहातस इवाम्बरेण विभीषणो राघवमन्वियार्य ॥ ५२ ॥
 
सोऽपि तादृश कोर्त्तिशाली अपि त्वं जनकाधिराजतनयाया
सीताया लब्याभिलाष जाताभिलाप, सन् इत्यर्थ, हा खेदे
पुलस्त्यस्य ब्रह्मर्षे सन्ततीनां सन्तानानां यश एव शीतद्युतिः
चन्द्र तस्य लाञ्छनं कलङ्क: कथ जातोऽसि । ( एतादृशं महत्
पुलस्त्यकुल कलङ्कयसीति भाव । रूपकालद्वार । शार्दूल-
विक्रीडितं वृत्तम् ॥ ५० ॥
 
ज्ञात्वेति । वत खेदे, असो रावणस्य अनुजो बलो बलवान्
विभोषष, लङ्कां कलङ्काङ्किसा दूषितामित्यर्थ ज्ञात्वा श्रेयसा
मङ्गलानाम् आशा न्यक्कुर्वत अग्टहत इति यावत् अस्य
रावणस्य इति इत्यम् अन्विष्य अनुसन्धाय बहुविधं विचारयन्
यसमामा नास्तीति विवेचयनित्यर्य, अधुना मानं विसुन्य
व्यक्ता, स्वगौरवत्यागेन पराश्रयणादिति भाव, नग्नवत् बौद्ध-
क्षपणकवत् अग्रज्ञं ज्येष्ठं रावणं प्राक्तनधम्मम् अग्रवर्त्तिपित्रादि-
परिजनं वा व्यक्क्षा तथैव नग्नवदेव सानुचर, समुहचरः मन्
झटिति सपदि श्रीरामस्य सान्निध्यकं मनिधिं यात गतवान् ।
गाविधीडितं वृत्तम् ॥ ५१ ॥
 
तत इति । ततः अनन्त विभीषणः चतुर्भिः मन्त्रिपुत्रैः
सह उपेत्य लड़ाया महान् पातर इष भयमिव भग्व-