This page has not been fully proofread.

पष्ठोऽद्धः ।
 
सीताञ्च रामाय निवेद्य देवो
 
वसाम लडामण्यातु भद्धा ॥ ४८ ॥
 
[२६३]
 
रावणः ।
 
जानामि सीतां जनक मसूतां जानामि रामं मधुसूदनञ्च ।
बधञ्च जानामि निजं मनुष्यात्तथापि सोतां न समर्पयामि ॥४८॥
विभौ । यस्य त्रयम्बकमोलिखेलद मलस्वर्लोककल्लोलिनी-
लोलालइनलम्पटेन यशसा दिग्भित्तयः चालिताः ।
सोऽपि त्वं जनकाधिराजतनयालब्धाभिलापः कथं
हा ! जातोऽसि पुलस्त्य सन्ततियशःशीतयुतेर्लाञ्छनम् ॥५०
 
प्रग्टह्येति । रत्नानि विभूपयानि रत्नालङ्कारान् दिव्यानि
वासांसि वसनानि मुख्यान् उत्क्लष्टान् मणींश्च रत्नानि च देव
सीताञ्च रामाय निवेद्य अर्पयित्वा (रामेण सह सन्धिं कृत्वेत
भावः, लङ्कां वसाम शङ्खा भयम् अपयातु नश्यतु । उपजाति
वृत्तम् ॥ ४८ ॥
 
जानामीति । जनकप्रसूतां सीतां जानामि, लक्ष्मीमिति
भाव:, रामञ्च मधुसूदनं जानामि । मनुष्यात् निजं बधञ्च
जानामि, मनुष्यादित्यव दशास्य इति पाठे दशास्योऽह
मित्यर्थः । तथापि सोतां न समर्पयामि निहतो गन्तुमिच्छामि
तहिष्णोः परमं पदमिति भावः । उपजाति वृत्तम् ॥ ४८ ॥
 
यस्येति । यस्य तव वयम्बकस्य मौलो शिरसि खेलन्तो
क्रीड़न्ती अमला निर्मूला या स्वर्लोककल्लोलिनो मन्दाकिनी-
त्यर्थः, तस्या लीलया यत् लगनं तस्मिन् लम्पट: लुधः तेन
सुरलोकव्यापिनेति भावः, व्यगसा दिग्भित्तयः दिश एव
कुड्यानि चालिता:-शोधिता: दिगन्ताः व्याप्ता इति भावः,