This page has not been fully proofread.

[२५६]
 
महानाटकम् ।
 
त्यज प्रकोपं कुलकोर्त्तिनाशनं
भजस्व रामं कुलकोर्त्तिवर्द्धनम् ।
अलं विरोधेन शमो विधीयतां,
प्रदीयतां दाशरथाय मैथिली ॥ ३४ ॥
यावन्न ली समभिद्रवन्ति,
बलोमुखाः पर्वतफुटमात्रा ।
दंष्ट्रायुध्वाचैव नखायुधाय
प्रदोयता दाशरथाय सोता ॥ ३५ ॥
 
वयं कृतं स रामः किं करिष्यति ? अत्र किमु वक्तव्यमिति
भावः । अनुष्टुप् वृत्तम् ॥ ३३ ॥
 
त्यजेति । कुलञ्च कोर्त्तिश्च तयोर्नाशनं संहारकं प्रकोपं
विद्वेषं त्यज, स्वकोपमिति वा पाठ, कुलस्य कीर्तेय वर्धनम्
अभ्युन्नतिकरं रामं भजस्व प्रोषय, विरोधेन विवादेन अलं
विवादं मा कुरु, शम शान्तिः विधीयताम् अवलम्बाता,
प्रसीद जोवेम सबान्धवा वयमिति तृतीयचरणस्य पाठान्तरम्,
दाशरथाय रामाय मैथिलो सोता प्रदीयतां प्रत्ययंतामित्यर्थ ।
वैशस्थविलं वृत्तम् ॥ २४ ॥
 
G
 
यावदिति । पर्वतकूटमात्राः गिरिशृद्गप्रमाणा, "दग्धमाव
इयमम्माने" इति मात्रमस्ययः; दंष्ट्रायुधा नखायुधाय नखदन्त
प्रहारिण इत्यर्थ, वनीमुखाः वानराः यावत् लड़ा न ममभि
द्रवन्ति उत्पोडयन्ति तावत् दाशरथाय सीता प्रदोयताम् ।
मोता इत्यव मैथिलीति पाठ: प्रामादिकः चतुर्थपादे एका-
चरवाहुल्येन छन्दोमनादिति ध्येयम् । एवं परख श्लोके च ।
उपजाति वृत्तम् ॥ ३५ ॥