This page has not been fully proofread.

[२५२'
 
महानाटकम् ।
 
विजेतव्या लङ्काऽचरणतरणीयो जलनिधि
विपच, धौलस्त्यो रणभुवि सहायाच कपयः ।
तयाप्येको राम सकलमपि हन्ति प्रतिबलं
क्रियासिद्धिः सत्वे वसति महता नोपकरणे ॥ २७ ॥
अथ समुद्रतीरावस्थितो राम स्वगतम् ।
पारसिन्धु पुरो, पुरोपरिसरे प्राचौरमभ्रंलिए,
सिंहद्वेपि बलं, रिपुञ्जयबलास्ते कुम्भकर्णादय ।
 
राजन्ति सुरकरीश्वरस्य सुरगजस्य प्रकटात् विशालात् कुम्भात्
मुक्ताफलानि यस्मिन् तत् तथा चलन्त गुरवः महान्तः
कुलाचला कुलपर्वता, "महेन्द्रो भलय, सह्य शक्तिमानृच
पर्वत,
विध्यय पारिपालश्च सप्तैते कुलपर्वताः ॥" इत्यका
यस्मिन् तत् यथा तथा चचाल किल, समुद्धतं प्रस्थितेति भावः ।
पृथ्वो हृत्तं, "जसौ जयला वसुग्रहप्रतिश्च पृथ्वो गुरुः" इति
नक्षगात् ॥ २६ ॥
 
+
 
विजेतव्येति । लङ्का या सुरैरपि दुर्जयेति भावः, विजेतव्या
विशेषेण जयनीया, जलनिधिः समुद्रः अचरणतरणोय. न
पदैरुत्सार्थ । पौलस्त्यो रावण, यस्त्रिलोकविजयोति भाव.,
विपच: शत्रु: रणभुवि संग्रामे कपयः वानराः, कार्य्याकार्य
विवेकरहिता इति भावः, महाया । तथापि एवं जयमावन-
वैगुण्येऽपोति भाव, एको राम सकलमपि प्रतिवलं विपक्ष-
सैन्यं हन्ति हन्तु शक्कोतीति भावः, तथा हि महतां जनानां
क्रियासिधि: कार्थसिद्धि सवे स्वस्थ शक्तावेवेत्यर्थः, वसति,
उपकरणे सहायायुपायसामग्रा न । शिखरिणी वृत्तम् ॥ २७ ॥
 
पारे इति । सिन्धोः समुद्रस्य पारे पारसिन्धुः, "पारे मध्ये
 
*