This page has not been fully proofread.

[२५० ]
 
महानाटकम् ।
 
एकेनैवोपकारण प्राणान् दास्याम्यहं कपे ॥
अन्येनैवोपकारण शेषेण ऋणिनो वयम् ॥ २२ ॥
हनू । महिधा बहवो भृत्यास्तव तिष्ठन्ति राघव ! ।
त्वद्विधो गुणसम्पन्नः स्वामी नैव च लभ्यते ॥ २३ ॥
अथ प्रयाणम् ।
 
अथ विजयदशम्यामा खिने शुक्लपक्षे
दशमुखनिधनाय प्रस्थितो रामचन्द्रः ।
हि विद्गय सहायेर्यूचनायैस्तथान्यैः
कपिभिरपरिमाणैर्व्यासदिक चक्रवालः ॥ २४ ॥
 
L
 
एकेनेति । हे कपे । अहम् एकेनैव उपकारेण मोता-
वार्त्तानयनेनेति भावः, तुभ्यं प्राणान् दास्यामि, निष्क्रयत्वेनेति
भाव, शेषेण अवशिष्टेन अन्येन उपकारेण - लवादाहादिनेति
वयम् ऋणिनः चिरऋणबद्धा इत्यर्थ, तिष्ठाम इति
शेष । अनुष्टप् वृत्तम् ॥ २२ ॥
 
भाव,
 
महिधा इति । हे राघव ।
राघव तव सहिधाः मत्तुल्या, बहव.
भृत्या: किङ्गराः तिष्ठन्ति, त्वधि तव सदृश, गुणसम्पन्न, खामो
प्रभु नैव च लभ्यते नैव तु प्राप्यते । अनुष्टुप् वृत्तम् ॥ २३ ॥
 
अथेति । अथ सीताप्रवृत्तिलाभानन्तरम् चखिने मासि
 
शक्लपक्षे विशेषेण जयो यत्न प्रयागो सा विजया, सा चास
दशमो चेति तस्या विजयदशम्या रामचन्द्रः द्विविदो नाम
वानरः गय. वानरः तौ सहायौ सहचरौ येषां तैः यूथनायैः
दलपतिभिः तथा अन्यैः अपरिमाणे असंख्ये कपिभिः व्याप्तं
 
दिशा चक्रवालं मण्डलं
 
येम तथाभूतः सन् दशमुखस्य
 
रावणस्य निधनाय प्रस्थितः प्रचचाल । दिविदगय सहायै रित्यत्र