This page has not been fully proofread.

पठोऽव: ।
 
स्वभावादेव तन्वनी त्वद्दियोगाधिशेषतः ।
प्रतिपत्पाठशीलस्य विद्येव तनुता गता ॥ १५ ॥
 
कथं समुद्र उत्तीर्ण इति प्रश्न ।
 
[२४७]
 
शाखामृगस्य शाखाया: शाखां गन्तु पराक्रमः ।
यन्मया लडितोऽम्भोधिः प्रभावोऽयं तव प्रभो ! ॥ १६ ॥
 
शेषः । अथ पाण्डिमा विरहजनिता पाण्डुता चेत्, तदा मृणा-
लिका मृणालमेव मृणालिका नोलैव नीलवर्णैव, प्रतीयते
इति शेपः । वाष्पः अशुभर पुन, यदि, स्यादिति शेष, तदा
वारिधिः समुद्र कियान् ? अत्यल्प एवाभातोति भाव
सन्ताय, विरहज इति शेष, यदि, स्यादिति शेष, तदा हुतवहः
अग्नि: गीतलः, प्रतीयते इति शेष., है राम कियत्, वृत्त-
मिति शेष., वर्ण्यते ? हृदयं तव स्मृतिरेव मात्रा जोवनाधान
हेतुर्यस्य तादृशं वपु. गरोरञ्च लावण्यशेपं लावण्य ("मुक्ताफलेपु
छायायाप्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लावस्य-
मिहोच्यते ॥" इत्युक्तलक्षणं शेपो यस्य तथाभूतम् । सर्वयातीव
कातरा चोयागो सा दृष्टेति भाव । शार्दूलविक्रीडित
 
वृत्तम् ॥ १४ ॥
 
स्वभावादिति । स्वभावादेव निसर्गत एव विशेषतः तव
वियोगात् तन्वनो कशानी सा मतिपत्माठगोलस्य प्रतिपदि
स्वाध्यायनिषेधात् तत्र पाठरतस्य विद्येव, तनुता कृशता,
स्वभावादष्यधिकतरामिति भावः, गता प्राप्ता । उपमालङ्कारः ।
अनुष्टुप् छत्तम् ॥ १५ ॥
 
शाग्वेति । शाखामृगस्य वानरस्य शाखायाः वृक्षविटपात्
शाखाम्, अन्यामिति शेष:, गन्तुं पराक्रमः शक्तिः, अस्तीति