This page has not been fully proofread.

प्रथमोऽद्धः ।
 
तद्ब्रह्ममाष्टवषपातकिमन्मयारि
चवान्तकारि-करसङ्गमपायभीत्या
ऐशं धनुर्निजपुरश्चरणाय ननं,
 

 
देहं मुमोच रघुनन्दनपाणितीयें ॥ ५१ ॥
कोदण्डभङ्गामुखरोक्कृताशं वरं वरेण्यं जनकात्मजायाः ।
अनन्यसामान्यधनुर्विलासं नमामि तं लोक विसर्पि कीर्त्तिम् ॥५२॥
 
[३५]
 
तदिति । तत् ऐशं धनुः, ब्रह्मा च माता च ब्रह्ममातरौ
तयोर्बंधेन ब्रह्मवधेन माटबधेन चेत्यर्थः, ययाक्रमं पातकिनौ
पातिव्यवन्तौ मन्मयारि: हरः क्षत्रान्तकारी परशुरामः तो
तयोः करसङ्गमेन हस्तसंसर्गेण यत् पापं संसर्गज नितपातित्य-
मित्यर्थः, तस्मात् भीतिः भयं तया हेतुना निजपुरश्चरणाय
तत्तत्संसर्गजनितदुरितक्ष्याय रघुनन्दनस्य रामस्य पाणिदेव तीर्थं
पुण्यक्षेत्रं तस्मिन् देहं स्वरूपं मुमोच तत्याज । नूनमित्युत्प्रेक्षा
"भवेत् सम्भावनोत्प्रेचा प्रकृतस्य परात्मना" इति लक्षणात् ।
(पुरा किस कस्मिंश्चिदपराधे रुद्रः क्रोधपरोतः पञ्चमुखस्य
ब्रह्मणः गिर: एक चिच्छेद ततश्च ब्रह्महत्या तमाचक्राम/
तेनासौ ब्रह्मवधपातकीति पुराणवात्ती ।
भगवान् भार्गवस
पितुरादेगात् मातरं जधान तेनासौ माटवधपातकीति भार
तोया कथावानुसन्धेया । धनुपञ्चास्य गम्भुकरसंसर्ग: प्रोक्त एव,
भार्गवकरसंसर्गस्तु शम्भुशियत्वात्तस्य कदाचित् धनुर्विद्याभ्यामे
तहनुपा अस्त्रयोजनादिकरणादिति बोध्यम् । यथा कश्चित्
पापी कृतपापगोधनाय गड्ढादितीयेंषु देहं त्यजति तद्वदिति
भावः । वसन्ततिलकं वृत्तम् ॥ ५१ ॥
 
कोदण्डेति । कोदण्डस्य धनुपः भगात् मुखरोकता