This page has not been fully proofread.

पञ्चमोऽद्धः ।
 
श्रोलडामवलोक्य घोरदहनैः सन्दयमानां भृशं
प्रोवाचेति वचांसि सर्ववदनैस्तोयार्थिलङ्गेश्वरः ।
ग्रेनोरधिरम्बुधिर्निधिरां पायोनिधिः सम्भ्रमात्
अम्भोधिर्जलधिः पयोधिरुदधिर्वारां निधिर्वारिधिः ॥ १०३ ।
निकुम्भ ! कुम्भोदर । कुम्भकर्ण ! कुम्भैरल केवलनामधेयैः ।
मन्दोदरोमन्दिरपावकोऽयं पानीयमानीय न कैर्विनोतः ॥१०४॥
वातेन वायुना अनल: दोप्तः प्रज्वलितः, तथेति शेषः, यथा-
धूमेन व्याकुले नेत्रे यस्य तादृशं वक्त्र वदनं यस्याः तथाभूता
या युवती तस्याः वचःयल्यां या ताड़ना त्या क्रन्दतां
बालकानां वृद्धानां भोतानां वनितानां स्त्रोणाच हाहारवः
हाहा किमिदमापतितमित्यार्त्तनादः श्रूयते । शार्दूलविक्रीडितं
 
[૨૩]
 
वृत्तम् ॥ १०२ ॥
 
श्रीलडामिति । श्रीलङ्कां थोमतीं समृदामित्यर्थः, लद्वां
घोरै: महद्भिः, भोषणेरित्यर्थः दइने : अग्निभिः भृगमत्यर्थं
सन्दह्यमानां सम्यक् पुन: पुनरतिशयेन वा भस्मोक्रियमाणाम्
अवलोक्य तोयार्थी जलार्थो, पिपासाकुल इत्यर्थः, स चास
लङ्केश्वरवेति तथोक्तः टपार्त्तो रावय इत्यर्थः, सर्वे: दशभिरिति
भावः, वदनैः सम्भ्रमात् भयजनितवासात् अग्रे पुरतः नीरधिः,
अस्वधि, अपां निधिः, पायोनिधिः अम्भोधिः, जलधिः,
पयोधि:, उदधि:, बारां निधिः वारिधि, यस्ति किमिति शेषः,
इति वचांसि प्रोवाच । शार्दूलविक्रीड़ित वृत्तम् ॥१०३ ॥
निकुम्भेति । हे निकुम्भ ! हे कुभोदर ! हे कुम्भकर्ण !
केवलं नामधेयं कुम्भगन्दयुक्तमभिधानं येषां तैः कुम्भैः युष्माभिः
अलं व्यर्थं, युमदाह्वानं विफलमिति यावत्, "अलं व्यर्धसमर्थयोः'
इत्यमरः । कैरपि, महूत्येरिति शेषः, पानोयं जलम् आानीय भयं