This page has not been fully proofread.

[२३१]
 
पञ्चमोऽद्ध: ।
 
ईपत् सज्जनमैवीव नाभिद्यत कपेस्तनुः ।
निहता चन्द्रहासेन रावणेनातिरंहमा ॥ २३ ॥
रावणस्तधाज्ञापयति ।
 
छेत्तुं तं जनितोद्यमः, चितिभुजां वध्यो न दूतो भवेत्
इत्याक विभोषणस्य वचनं क्रुद्धस्तदा रावणः ।
बड्या बालधिवल्लरों बहुविधैर्वा मोभिराज्यन तै-
र्दवा वझिमटोपयहनुमतः कर्त्तुं विरूपं वपुः ॥ ८४
वद्भिवमो वानरपुच्छजन्मा प्रदह्य लवां खमिवोत्पतिभ्णुः ।
रामाद भयं प्राप्य किल प्रताप: पलायमानो दशकन्धरस्य ॥१५॥
रावणं प्रति हनूमान् कथयति ।
अग्निः प्रज्वलितः, समादिश भृशं वर्षन्तु धाराघरा',
वातो वाति, न वास्यति ध्रुवमसौ देवस्त्वदाज्ञावशः ।
 
ईपदिति । रावणेन अतिरंहमा अतिवेगेन 'चन्द्रहासेम
अमिना निहता कपेः हनुमतः तनुः सज्जनमैत्रीव साधुजन-
सस्यमिव ईषत् अल्पमपि न अभिद्यत न भिन्ना । ८२ ॥
 
छेत्तुमिति । तं हनूमन्तं छेत्तुं हन्तुं जनितोद्यम: समुद्यत
इत्य-कुडो रावणः सदा दूतः क्षितिभुजां रात्र वध्यः न
भवेत् इति विभोषणस्य वचनम् श्राकर्ण्य श्रुत्वा हनूमतो वपुः
विरूपं कर्त्त बालधिवहरी लागलमञ्जरीं वहुविधैः आज्यसतैः
घृताक्तैः वासोभिः वस्त्रैः वड्डा वह्निं दत्वा, तवेति शेष,
श्रदीपयत् ज्वान्लयामास । गार्दूलविक्रीडितं वृत्तम् ॥ ८४ ॥
 
वद्भिरिति । वानरस्य हनुमत पुच्चजन्मा लाडूलभवः
वहि: नहां प्रदय प्रकर्षेण भस्मोकृत्य रामात् भयं प्राप्य पलाय-
मान: दशकन्धरम्य रावयम्य खम् आकाशम् उत्पविष्णुः प्रताप
इव बभौ किन शुशुभे खलु । उपजाति वृत्तम् ॥ ८५ ॥
 
अग्निरिति । अग्निः प्रञ्चलित, समादिश भाज्ञापय,