This page has not been fully proofread.

पञ्चमोऽहः ।
 
आत्मानं परिरक्षितुं यदि भवान् पुत्तञ्च पौत्तादिकं
भ्रातुर्वर्गकुटुम्बक परिजनश्चान्यं तथा सैनिकम् ।
राज्यञ्चापि समुज्जलं दशशिरः ! काहत्यन्तं स्वेच्छ्या
योरामाय महात्मने विजयिने तहोयता मैथिली #
यावहागरधेर्न पश्यसि मुख यावय वारा निधि,
वदो यावदियञ्च वानरबलाक्रान्ता न लङ्कापुरी ।
यावत् सौदरवन्धुपुचमुहृदा मृत्युं न चालोकसे
तावद्रावण ! लोकनाघदयिता सोता स्वयं दोयताम् ॥ ८
किं बहुना ।
 
[२२८]
 
रामचन्द्रचरणसैवनात् चिरं पुत्रेण पौत्रेण वै सह भकण्टकं
राज्यं कुरु भुङ्क्ष्लेति यावत् । शार्दूलविक्रोडितं वृत्तम् ॥ ८
 

 
श्रात्मानमिति । हे दशशिर रावण भवान् श्रमानं
पुत्रं पौवादिकं च भ्रातु वर्गस्य स्वजनस्य कुटुम्बकं परिजनं
च तथा अन्यं सैनिक सेनासंक्रान्तपुरुपवर्गे समुज्ज्वलं महा-
ममृद राज्यवापि लम् अतीव काङ्क्षति यदि, तत् तदा
महामने विजयिने श्रीरामाय मैथिली सीता स्वेच्छया दीय
ताम् । शार्दूलविक्रीडितं वृत्तम् ॥ ८॥
यावदिति ।
 
यावत् दायरघे रामस्य मुखं न पश्यसि
नावलोकयसि, यावच्च वारा निधि समुद्र न बद्द, यावच इयं
लहापुरी वानराणां बलै: न श्राक्रान्ता, स्यादिति शेप, यावत्
मोदराणा वन्धूनां ज्ञातीनां पुवाया सुहृदा मित्राणाञ्च मृत्यु न
आलोकमे च न पश्यमि च, हे रावण । तावत् लोकनायस्थ
रामस्य दयिता प्रिया सोता वयम् प्रार्थनायामिति भाव,
दोयताम् । भार्दूलविक्रीडितं वृत्तम् ॥ ८ ॥