This page has not been fully proofread.

[२२४]
 
महानाटकम् ।
 
(अव पाश्चात्यमुस्तकीय पाठ: )
इत्युक्तो रजनीचरस्य हनुमानुद्भिद्य लोलावनं
वोरं तवसुतमचमात्तपरिघाघातैर्जघानागतम् ।
तत्कोपारुणलोचनेन्द्रजयिना प्रानिष्फलत्वात् धृत-
ब्रह्मास्त्रेण विगर्हितेन विधिना बडो विदग्ध: कपिः ॥ ८०
 
प्रत्यायनाय विश्वासार्थं तस्याः सोताया: सोमन्तमणिं शिरोरत्वं
जग्राह । (ततः) सहसा अशोकवनं भला प्रचादि-
कान् राचसान् निहत्य च रावणं द्रष्टुम् आत्मनः स्वस्य अन्ध-
विषये सौम्यः सुसाध्य इति भावः, अभवत् नागपाशबद: रावण-
सकाशं नीत इति भावः । शार्दूलविक्रीड़ितं वृत्तम् ॥
 
इतीति 1 इतीत्यम् ~ उत्ताः- सम्भाषितः, सोतयेति शेषः,
हम्मान् रजनीचरस्य रावणस्य लीलावनं क्रोड़ोद्यानम् उद्भिद्य
उच्चैरतिशयेनेत्यर्थः, भड्का प्रात्तस्य गृहीतम्य परिघस्य
अर्मलस्य आघात : महारै भागतं वनभवात् कपिनिध-
नार्थमुपस्थितं वोरं तस्य रावणस्य सुतम् पतं अघान इतवान् ।
तत् तस्मात् कोपेन अरुणे रक्ते लोचने यस्य स चासौ इन्द्र-
जयो मेघनादयेति तेन प्राक् प्रथमं निष्फलत्वात् हनूमति
विफलत्वात् विर्गर्हितेन विनिन्दितेन धृतब्रह्मास्त्रेण धृतेम
ब्रह्मपागेन विधिना हेतुना विदग्धः चतुरः, विज्ञ इत्वयैः,
कपिः वः । (वयं कथा, पूर्व ब्राह्मणा मेघनादाय दत्तो
ब्रह्मपागः एतेन त्वं कपिं वनोहोति । रुद्रावतारे तु हनुमति
म पायो निष्फलो जातः । ततो मेघनादेन ब्रह्मणो गर्दा
कृता, ततय ब्रह्मणा प्रार्थितो हनूमान् वयं तत्सम्मानार्थं
 

 
यह इति । ८०