This page has not been fully proofread.

पञ्चमोऽद्धः ।
 
तत्सम्मुखं प्रचलति स्वयमचनामा
 
नन्वेष राक्षसपतेः कुपितः कुमारः ॥ ७७
 
प्रय भचे पतिते गच्छति च शक्रजिति पारिपार्श्विकः ।
 
इत्वा कथञ्चिदधिराजकुमारमचं
 
रे वानरापसद ! कुछ पलायितोऽसि ।
त्वां हन्तुमिच्छति दशाननशासनेन
दर्पोहतो धृतधनुर्ननु मेघनाद: ॥ ७८॥
रामाभ्यागमनं निवेद्य सुचिरादाग्खास्य सोतां तत:
तत्सोमन्तमणिं तदा रघुपतेः प्रत्यायनायाददे ।
भड़काऽशोकवनं निहत्य सहसा चाचादिकान् राक्षसान्
द्रष्टुं रावणमात्मबन्धविषये सौम्योऽभवन्मारुतिः ॥ ७८ A
 
[२२३]
 
लड़यति, ननु भोः एपः अचनामा राचम्रपतेः रावणस्य कुमार:
कुपितः सन् स्वयं तत्सम्मुखं तदभिमुखं प्रचलति प्रधावति ।
वसन्ततिलकं वृत्तम् ॥ ७७ ॥
 
इवेति । रे वानरापसद ! वानराधम कथञ्चित् केनापि
प्रकारेण भेधिराजस्य रावणस्य कुमारम् अहं हत्वा विनाश्य
कुल पलायितः प्रधावितः असि ? ननु भो: दर्पेण अहहारेण
उद्धतः उग्रः मेघनाद: दशाननस्य रावणस्य शासनेन श्राज्ञया
धृतधनु: धनुर्धरः मन् त्वां हन्तुम् इच्छति उदयच्छतीत्यर्थः ।
वसन्ततिलकं वृत्तम् ॥ ७८ ॥
 
रामेति । मारुतिर्हनूमान् रामस्य अभ्यागमनं युद्धार्थमव
प्रयाणं निवेद्य सुचिरात् बहुचयमित्यर्थः, सीताम् भाखास्थ
प्रबोध्य, सान्त्वयित्वेत्यर्थः, तदा तस्मिन् काले रघुपतेः रामस्य