This page has not been fully proofread.

पञ्चमोऽह: ।
 
सोता । चन्द्रो यस्य दिनेगदोधितितमस्तोयं स्फुलिङ्गायते,
कर्पूर कुलिशोपमं, शशिकला शम्पासमा भासते ।
वायुर्बाड़ववद्भिवन्मलयजं दावाग्निवत् साम्प्रतं
सन्देशं नय रामसनिधिमितो यात्रां द्रुतं कारय ॥६६॥
 
[२१७]
 
कुपितस्य क्रुद्दस्य लक्ष्मणस्य च रक्षांसि कानि ? श्रतितुच्छा-
नीति भावः ।
कुपितस्य सलक्ष्मणस्येति पाठे सलक्ष्मणस्य
लक्ष्मणसहितस्य, रामस्येति शेषः । वसन्ततिलकं वृत्तम् ॥६५॥
 
चन्द्र इति । यस्य रामस्य, यवेति पाठान्तरं, चन्द्रः चन्द्रस्यायं
चन्द्रः चन्द्रसम्बन्धी, किरण इति शेपः, दिनेशस्य सूर्यस्य दीधिति
सम: किरणसमः, अतीव दुःसह इति भावः, तोयं जलं
स्फुलिङ्गायते स्फुलिङ्ग: अग्निकणः, "विषु स्फुलिङ्गोऽग्नि ऋण: "
इत्यमरः, स इवाचरति, पद्मं स्फुलिङ्गोषममिति पाठान्तरम् ।
कर्पूरं कुलिगोपमं वचतुल्यं, कर्पूर: कुलिशोपम इति
पुंलिङ्गपाठोऽपि । शशिकला चन्द्रकला -गम्पासमा विद्युत्तुल्या
भासते स्फुरति, वायुः वाडववडिवत् बड़वानल इव, मलयजं
चन्दनं दावाग्निवत् दावानल इव उद्दीपकवेनासह्यत्वादिति
सर्वत्र योग्यम् । साम्प्रतम् अधुना तस्य रामस्य सन्निधिं सन्देशं
महाचिकं नय मापय, इत: अमात् स्थानात् द्रुतं शोघ्नं यावां
कारय कुर्वित्यर्थः, करोतिर खायें गिजन्तः । अव यस्येति
यच्छध्देन तच्छन्दस्याकाङ्क्षितत्वात् तेनैवान्वयी युक्तः किन्तु
रासस विधिमित्येक
देयरामेति शब्देन सम्बन्धो न घटते, उक्तञ्च
* प्रतियोगिपदादन्यत् यंदन्यत् कारकादपि । वृत्तिदेकदेशस्य
सम्बन्धस्तेन नेप्यते ॥" इति । तदव भद्र : सन्निधिमिति पाठे,
हे भद्र । इति सम्बोष्य सविधिमित्यस्य "यच्छग्देन तु तच्छन्दो
 
4
 
म-१८