This page has not been fully proofread.

पष्चमोऽड: !
 
श्रय हनुमान मुद्रां दर्शयति ।
सुवर्णस्य सुवर्णस्य सुवर्णस्य वरानने ! ।
 
प्रेषितं रामभद्रेण सुवर्णस्याङ्गरीयकम् ॥ ५८ ॥
सोता हनुमतोरुक्तिप्रत्यक्ती ।
 
मातजन कि ! को भवान् ? वनमृगः, केनाल संप्रे पितः ?
त्वद्दोत्वेन रघूत्तमेन, किमिदं हस्ते स्थितम् ? मुद्रिका ।
दत्ता तेन, वदैव तां निजकरेणादाय चालिङ्गर च
प्रेम्पाऽपि ससर्ज, शवदुदभूहात्रेषु रोमोहमः ॥ ६० ॥
 
[२१३]
 
पड़गानि स्मृतानि च ॥ इत्यक्तेषु च निठा उत्कर्षः जाताऽस्येति
निष्ठितः लघप्रतिष्ठ इति यावत् ५८ ॥
 
सुवर्णस्येति । हे वरानने ! चारुवदने ! रामभद्रेय सुवर्णस्य
शोभनो वर्षो यस्य तथोक्तस्य सुवर्णस्य शोभना: वर्षा राम-
नामाचराणि यत्र तथोक्तस्य सुवर्णस्य दशमापकप्रमाणस्य,
सिव दगमापकम्" इत्युः सुवर्णस्य हेम्नः अरोयकम् अद्भया
भरगां प्रेषितम् । चतुःपञ्चागतमारस्य
चतुःपञ्चागतमारभ्य एकोनपरिपर्यन्तेपु
लोकेषु अनुष्टुप् ह्त्तम् ॥ ५८ ॥
 
मातरिति । मातः ! जानकि ! इति हनूमदुक्तिः । भवान्
कः १ इति सोताप्रत्युक्ति: । वनमृगः शाखामृग इति यावत् ।
हनुमदुति: । केन जनेन अव सम्प्रेषत: त्वमिति शेषः ।
सीताप्रत्युक्ति: । रघूत्तमेन रघुयेष्टेन रामेय तक दौत्वेन वार्त्ता-
वहत्वेन, प्रेषितोऽस्मीति शेषः । हनुमदुक्ति: । हस्ते इदं किं
स्थितम् १ सीताप्रत्युक्ति: । मुद्रिका मुद्रादितं सुवर्णद्गुरोय
मित्यर्थः, तेन रामेष दत्ता महिता । हनुमदुक्तिः । सा सोता
 
तदैव' सच्छ्रवणमात्रच एव तां मुद्रिकां निजकरण आदाय