This page has not been fully proofread.

पञ्चमोऽडः ।
 
मानेनैव तनुः चयं ननु गता, सत्यं बचोव्याधिना,
 
श्रुत्वा रावण-सीतयोरिति वचो हास्यं हनूमान् ययौ ॥ ५० ॥
मोतया प्रतिक्षिप्ते (क) रावणे गते त्रिजटा सोतयो: रहस्यम् ।
पृच्छामि विजटे! सुखेन भवतो कस्मादयं रावणणे
नीतिज्ञो ननु वाक्कतीह किल मामन्याङ्गनां कानने ? ।
सोते ! मन्मथपुष्पसायकहते का नाम नीते: कथा ?
यावत् कामशराहतो न पुरुषस्तावद विशिष्टायते ॥ ५१ ॥
 
[२०६]
 
परत्न एव न भविष्यतीति भाव: । कम्तिा ननु कम्तिा एव,
तु किन्तु तत् कम्पनं अन्ते नं, भविष्यति इति शेषः ।
अचिरात् शीघ्रं रामं नष्टरूपं निहतत्वात् विरूपम् इत्यर्थः,
यस अवलोकयिष्यसि इति रावणी आकारपूर्वम् आकार:
पूर्वो यस्य तयोक्तं रामम् धाराममित्यर्थः, तव उपवनमिति
यावत्, "आरामः स्यादुपवनम्" इत्यमरः, नष्टरूपं वानरैः भग्नत्वात्
विपव्यम्तमौन्दर्यं द्रष्यसीति वद कथय । इति सोताप्रत्युक्तिः ।
मानेनैव ईप्याजनितकोपेनैव, "मान: कोपः स तु हेधा मणयेष्र्ष्या-
समुद्भवः" इत्युक्ते, तनुः शरीरं तवेति शेष, क्षयं गता ननु
तीव, इति रावयोक्ती सत्यं वयं गता तनुर्भमेति - अवितयं
किन्तु वचोव्याधिना तव दुर्वचसेत्यर्थः, न तु मानेनेति भावः,
इति मोताप्रत्युक्तिः । इतीत्थं रावणसोतयोः वचः उक्तिप्रत्युक्ति-
रूपं वचनं श्रुत्वा हनूमान् हास्यं ययो प्राप, जहासेत्यर्थः 1
गार्दूलविक्रीड़ित वृत्तम् ॥ ५० ॥
 
(क) प्रतिक्षिप्ते निराकृते ।
 
पृच्छामोति । हे विजटे ! भक्तो सुखेन इदानी रावण-