This page has not been fully proofread.

पञ्चमोऽङः ।
 
कपोनां कटके घोरे जातः कनकलध्वनिः ।
आञ्जनेयः किमेकाको गच्छेद्रावसन्निधिम् ॥ ३५॥
वेलावने तालतमालमालामालोकमानः सहसाञ्जनेयः ।
 
उल्लोलयन् बालधिवालमुच्चैः कनोलिनीवल्लभमुल्लल ॥ २६ ॥
प्रविश्य सुरसामुखान्तरमतो विनिष्क्रम्य च
क्रमादुदितमम्बुधेस्तु हिनशैलजं मानयन् ।
 
+
 
[२०१]
 
1
 
महद्भिः अविशदैः पनिर्मलैः भीमाट्टहासोर्मिभि: उत्कटोच-'
हासरूपतरङ्गैः अम्बुनिधिः समुद्र: उत्तीर्ण: लडेशस्य रावणस्य
दिशि दिशि प्रतिदिशं मौद: प्रवृद्ध मतापानलः लढितय,
हनुमतेति कर्तृपदं सर्वत्र योग्यम् । शार्दूलविक्रीडितं
 
वृतम् ॥ २४ ॥
 
कपोनामिति । कपोनां वानराणां घोरे भीषणे कटके
सैन्ये एकाको असहाय आञ्जनेयः अञ्जनासुतः हनूमान्
रावणसन्निधिं गच्छेत् किम् ? इतीत्थं कलकलध्वनि, जातः ।
किलकिलाध्वनिरिति पाठान्तरम् ॥ ३५ ॥
 
वेलेति । श्राञ्जनेय: हनूमान् वेलावने समुद्रतोरवर्त्तिनि
भरण्ये तालाना, (मालेति पाठे शालानामित्यर्थ, तमालानाञ्च
माला श्रेणोम् आलोकमान, पश्यन् तथा बालधिवालं पुच्छ
लोमचयं, वालधिबालमित्यव बालषिवल्लोमिति पाठे वालधि-
वल्ली पुच्छलता मत्यर्थ, उल्लोलयन् विस्फारयन् सहसा झटिति
उच्चै महान्तं कलोलिनोवलमं नदीपतिम् उल्ललई उल्लखित
वानित्यर्थ: । इन्द्रवचा वृत्तम् ॥ २६ ॥
 
प्रविश्येति । स पवनजः वायुसुतः सुरमा तदाख्या नाग-
माता तस्या मुखान्तरं वदनविवरं प्रविश्य श्रवो मुखान्तरात्