This page has not been fully proofread.

*
 
पञ्चमोऽद्धः ।
 
[१८३]
 
विचिन्त्य रामो मनसाकुलेन विहाय चापं स तंदा रुरोद ॥ १८ ॥
सुग्रोवः । एते सत पयोधयो दश दिशः सप्तैव गोत्राचला:
 
पृथ्ववादोनि चतुर्दशेव भुवनान्येकं नभोमण्डलम् ।
एतावत् परिमाणमल्पविषये ब्रह्माण्डभाडोट्रे
क्वास यास्यति जानको ? रघुपते । किं कार्मुकं त्यक्ष्यते ?
 
॥ २०॥
 
1
 
रामः । व्यसने महति प्राप्ते स्थिरैः स्थातुं न युज्यते ।
लां निःगद्धमालोक्य क इहागन्तुमर्हति १ ॥ २१ ॥
 
वातेन पित्रा भरताय राज्यं दत्तं, सम्प्रति रावणेन सोता हता
इति आकुलेन व्यथितेन मनसा विचिन्त्य चापं धनुः विहाय
विमुच्य कुराद रुदितवान् । उपजाति वृत्तम् ॥ १८ ॥
 
एते इति । हे रघुपते ! एन सप्त पयोधयः समुद्रा. न तु
ततोऽधिका इति भावुः, दिशः दश न त्वधिका:, गोवाचला:
कुलपर्वता: सप्तैव न तु ततोऽधिका इति भावः, पृथ्ववादीनि
भुवनानि जगन्ति भूर्भुदः-खर्जन महस्तपः सत्यानि सप्त अतलानु-
तन्न वितलसुतलतलातलपातालरसातनानि सप्त इत्येवं मिलित्वा
चतुर्दशैव न तु एतदधिकानोति भावः, नभोमण्डलं आकाश-
मण्डलम् एकमेव, न तु द्वितीयमस्तोति भाव., एतावत्
अत्यम्प मे वेत्यर्थ, परिमाणं परिच्छेद (जगतामिति भावः
अतः अल्पः विषयः स्थानं यस्य ताह्मे ब्रह्माण्डमेव भाण्डं तस्य
उदरे अभ्यन्तरे असो जानको के कुल याम्यति ? (रावणेन
नोयमानेति भावः, अवश्यमेव अस्माभिः सा शवुहस्तात् उहा
येते इति भावः, अत. किं कथं कामुकं धनु त्यज्यते ? नैय
त्यक्तमुचितमित्यर्थः । शार्दूलविक्रीडितं उत्तम् २०:
 

 
व्यसन इति । महति व्यसने विपदि, "व्यमनं विपटि"
 
म-१७