This page has not been fully proofread.

प्रथमोऽङ्कः ।
 
अन्येपामपि ।
 
उत्क्षितं सह कौशिकस्य पुलकैः, साईं मुखैर्नामितं
भूपानां, जनकस्य संशयधिया साकं समास्फाज्ञितम् ।
वैदेही-मनसा समञ्च सहसा कृष्ट यतो भार्गव -
प्रौढ़ाइल तिकन्दलेन महता तद्भग्नमैगं धनुः ॥ ४३ ॥
 
[२८]
 
भूते सति पुनः सिंहासने मूर्च्छितं मोह: प्राप्त इत्यर्य: ।
शार्दूलविक्रीड़ित वृत्तम् ॥ ४२ ॥
 
उत्चिप्तमिति । तत् ऐशं धनुः कौशिकस्य विश्वामित्रस्य
पुलकैः आनन्दजरोमहर्षैः सह उत्क्षिप्तम् उत्थापितं, रामेणेति
कर्त्तृपदं सर्वत्र अध्याहार्य्यम् । रामो धनुरुत्चप्तवान् कौशिकस्य
चाङ्गानि आनन्देन पुलकितानि अभवन्रित्यर्थः । भूपानां सभा-
• सदां प्रतिपक्षनृपायां सुखै, साई नामितम् अवनतोक्कृतं,
धनुर्नमनकाल एव विपचनृपतीना मुखानि लज्जया अवनतानि
अभवन्नित्यर्थः । जनकस्य संशर्यधिया रामो धनुर धिज्यं कर्तुं
पारयति न वेति सन्देहबुद्धरा सार्क मह समास्फालितं सन्ताडित,
धनुरास्फालनकाले एव जनकस्य सन्देहवुद्धिः निरस्तेति
भावः । वैदेह्याः सौताया: मनसा समं सह सहसा आकटं,
धनुराकर्षणं सीताया मनोहरणञ्च समकालमभूदित्ययः, ततः
अनन्तरं महत्ता घोरेण भार्गवस्य परशरामस्य प्रौढ़ा या मह
इतिः अहङ्कारः तथा कन्दलः विवादः क्षत्रियविरोधः तेन, सहार्थे
तृतीया, भार्गवौढ़ाहङ्क्षतिदुर्मदेन सहितमिति पाठे भार्गवस्य
प्रौढ़ाहङ्क्षतिदुर्मदेन उत्कटाहङ्कारगौरवेण सहितं सहेत्यर्थः, भग्न
खण्डितं, धनुर्भगः परशरामचत्रविरोधश्च परशराम गर्वध्वंसश्च वा
समकालमभूदिति भावः । सहोक्तिरलद्वार' "सहार्यस्य बलादेकं