This page has not been fully proofread.

[१८४
 
महानाटकम् ।
 
अत्र माल्यवति पर्वते वर्षास विरही रामः ।
यत्वन्नेव ममानकान्ति सलिले मग्नं तदिन्दोवनं,
मेघैरन्तरितं प्रिये तव मुखच्छायानुकारो शशी ।
येऽपि त्वद्गमनानुकारिगतयस्ले राजहंसा गता-
स्त्वत्माश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥ २ ॥
लक्ष्मण । शिविलशिथिलं न्यस्य स्खैर धनु शिखरे शिरो
नयनमलिलैः कुर्वन् मौर्योलतामपरामिव ।
अहह । विकल युवा श्रुत्वा घनस्तनितं मुहुः
किमपि किमपि ध्यायन्त्रार्थो न याति न तिष्ठति ॥३॥
 
यदिति । हे प्रिये । यत् इन्दीवर नोलोत्पलं तव नेटेण
समाना कान्तिर्यस्य तथाभूत तत् सलिले मग्न तव मुख
च्छायानुकारी त्वन्मुखसन्निभ इत्यर्थः, शशो चन्द्रः मेघै, अन्त-
रित आवृत । ये राजहसा' तव गमनम् अनुकरोतीति
तथाभूता गतिर्येया तादृशा', तेsपि गताः मानम सर इति
भाव, अत दैवेन विधिना तव सादृश्येन विनोदमावमपि
प्रोतिलाभोऽपि न सम्यते न महाते । मादृश्यदर्शनं हि विर

हिगां विनोदम्तदपि मम नास्तोति भावः, दैव न हि चास्य
तोति पाठान्तरम । यित्र पूर्ववाक्यत्रयस्य चतुर्थवाक्य हेतुत्वेन
निर्देशात् कान्यलिङ्ग मलद्वार । शार्दूलविक्रीडितं वृत्तम् ॥२॥
 
मिथिलेति । श्रार्य राम. धनुष कार्मकस्य शिग्रेसपे
गिर: गियिलगिधिलं मन्दं मन्दमित्यर्थ, स्वयं स्वच्छ्यान्यस्य
निधाय नयनमलिले वाप्पधाराभिः अपरामिय भन्यामिव
मोर्वोलतां ज्यावज्ञ कुर्वन् रचयन मह खेदे. विकल.