This page has not been fully proofread.

पञ्चमोऽवः ।
 
एप श्रील हनूमता विरचिते श्रीमन्महानाटके
वोर-श्रीयुतरामचन्द्रचरिते प्रत्युद्धृते विक्रमैः ।
मिश्रोमधुसूदनेन कविना सन्दर्भ्य सज्जीकृते
रामाद्दालिवधाभिधोऽत्र गतवानञ्चतुर्थो महान् ॥ ५० ॥
 
पञ्चमोऽङ्कः ।
 
[१८३]
 
रामाइलीयात्र परोऽस्ति कश्चिद्दारापहारान्न परोऽपमानः ।
तयापि रामः शरदं समीक्ष्य प्रतीक्षते सम्प्रति कालमेतम् ॥ १ ॥
निर्भय यया तथेत्यर्थः, लहां प्रतस्थे प्रचचाल । किन्तु अचिरात्
साम्प्रतं माल्यवति तदाय्य उत्तमाद्री उत्कृष्टगिरो वर्षाकालं
गमयितुं नेतुं मन्त्रिभिः जाम्बुवप्रमुखैरिति शेष, सम्मतः
अभूत् । मन्त्रियां परामर्गेन माल्यवत्पर्वते वर्षाकालमनय-
दिति भावः । स्रग्धरा वृत्तम् ॥ ७८ ॥
 
एप इति । सुगमम् ॥ ८० ॥
 
इति श्रोजोवानन्द विद्यासागरभट्टाचार्य विरचिता
महानाटकचतुर्थाकव्याख्या समाप्ता ॥ ४ ॥
 
रामादिति । कश्चिदपि रामात् परः श्रेष्ठ: बलीयान् प्रबल:
न अस्ति न विद्यते, दारापहारात भार्य्यापहरग्यात् परः श्रेष्ठः,
महानित्यर्थ, अपमान न, अस्तीत्यन्वय, तथापि रामः शरदं
समोध्य सम्यग् दृष्ट्वा यात्राकालं विधाय्यँति यावत्, सम्प्रति
एतम् उपस्थितं कालं वर्षाकालं प्रतोचते गमयतीत्यर्थ, समोच्य
प्रतोचते सम्प्रति कालमेतमित्यव प्रतोय बदाम्बुधौ सेतुमरिं
जगामेति पाठान्तरम् । उपजाति वृत्तम् ॥ १ ॥