This page has not been fully proofread.

चतुर्थोऽद्रः ।
 
बाली। गृहाय बाणं रघुराजपुध !
सुवामसूनुं समरेऽवतोर्णम् ।
जानीहि मां दुन्दुभिघातवत्रं
 
[१७]
 
नेप्यामि वा कालग्टहातिथित्वम् ॥ ७१ ॥
इत्युभौ युद्धमवतरतः । लक्ष्मण सुग्रोवं प्रति ।
आध्यवाणेन भित्रोऽयं वाली उठति भूतले ।
तंडिपत्तस्य शिरसि पुष्पवृष्टिः सुरैः कता ॥ ७ ॥
वालो । सुग्रीवोऽपि क्षमः कर्त्तुं यत् कार्य्य तव राघव ॥
तदहं न क्षमः कम्मादपराधं विना इत: १ ॥ ७३ ॥
 
भय सतां साधूनां देह परित्यज्य असतः दुर्जनान् निर्गच्छति
नितरा प्राप्नोतीत्यर्थः । अनुष्टुप् वृत्तम् ॥ ७०
 
गृहाणेति । हे रघुराजपुत्त ! बाणं घरं गृहाण, मा दुन्दुभैः
दैत्यविशेषस्य घाते संहारे वज्रं कुलिशं दुन्दुभिदैत्यघातिन-
मित्यर्य, तिवइनने किं वक्तव्यमिति भाव:) समरे युद्धे श्रवतीर्ण
सुवामस्नुम् इन्द्रपुचं जानीहि, वा युवा, त्वा लक्ष्मण श्वेत्यर्थः,
कालग्टहस्य यमान्नयस्य प्रतिथित्वं नेप्यामि हनियामोत्यधेः ।
उपजाति वृत्तम् ॥ ७१ ॥
 
आयेति । आर्यस्य रामस्य वाणेन भिन्न विदः श्रयं बाली
भूतले लुठति विचेटते, सुरैः देवै: तस्य बालिनः विपञ्चः शत्रुः,
राम इत्यर्थ तस्य शिरसि पुष्पवृष्टिः कृता । ट
वृत्तम् ॥ ७२ ॥
 
सुग्रीव इति । हे राघव ! तव यत् कार्यं सोतोहाररूपं
सुग्रीवोऽपि कर्त्तुं नमः शक्त, तत् कार्यं कर्तुम् अष्टं न क्षमः ?
काँकु, सुग्रीवादपि प्रबलोऽहमभ्यं तत् कार्यं कर्त्तुं शक्त