This page has not been fully proofread.

चतुर्थोऽद्धः ।
 
अन्वेपयामि सुमुख, विमुखो विधाता,
तां विरामि, निविड़प्रयो विरोधी ।
यङ्गीकरोमि गरलं, कुलयो: कलङ्कः,
शान्तिं भजामि, कुटिलं धनुरन्तरायः ॥ ५१ ॥
न मै दुःखं प्रिया दूरे, न मे दुःखं हृतेति मा ।
एतदेव हि शोचामि, चापो यदभिवर्त्तते ॥ ५२ ॥
"मांमं कार्यादभिगतमपां विन्दवो वाष्पपातात्
 
[१३]
 
दग्ध वेद्मि मन्ये इत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ ५० ॥
अन्वेषयामोति । सुमुखीं सुवदनां मोताम् अन्वेषयामि
अनुसन्धामि, किन्तु विधाता विमुखः प्रतिकूलः, अन्वेषणे फलं
नास्तोति भावे। तां कान्तां विस्मरामि विमर्त्तुमिच्छामि,
किन्तु निविडमयय: सान्द्रप्रेमा विरोधी प्रतीषः, विष्मरणं प्रति-
बनातीति भाव.) गरले विषम् करोमि विषपानेन प्राधान्
व्यक्तुमिच्छामीति भावः, किन्तु कुलयोः पिटमाटवंशयोः
पिटश्वशुरवंशयोर्वा कलङ्क: अपवाट, स्यादिति शेष:, शान्ति
भजामि तूष्यों तिष्ठामोत्यर्थः, किन्तु धनुः कार्मुकम् अन्तरायः
विघ्न, धनुषा प्रतीकार विधाने मां समुदुयोजयतीति भावः ।
 
वसन्ततिलकं वृत्तम् ॥ ५१ ॥
 
नेति । प्रिया जानको दूरे, तिष्ठतीति शेषः, इति मे मम
न दुखं, सा प्रिया हता इति मे मम न दु.खम्, अस्तीति
शेष चाप: धनुः यत् अभिवर्त्तत तिष्ठति एतदेव शोचामि, हि
मम धनुर्धारणं विफलं यदनेन प्राणाधिका कान्तापि न रक्षितेति
दुःखमनुभवामोत्यय । अनुष्टुप् वृत्तम् ॥ ५२ ॥
 
(तहिरहे प्राणवारणादात्मनः काठिन्धं प्रारब्धावसभोग्यत्वं