This page has not been fully proofread.

[१६२)
 
महानाटकम् ।
 
अर्जे चेतसि जानको परितपत्य च लङ्गेश्वरः
तच्चाईं मदनानल कवलयत्यत्र रोषानलः ।
इत्थं दुर्विधिसङ्गमव्यतिकरस्तुत्यो इयोरंभयोः
एक वैझि तुषाग्निदग्धमपरं दग्धं करोषाग्निना ॥ ५० ॥
 
त्वगपनयनादिति भावः, स्पर्शसुखावहा सुखम्पर्णा गुणवतो
शोलसौन्दर्य्यादिशालिनी चिकणतादिसमन्विता च नित्यं
सततं मनोहारिणी हृदयङ्गमा, मा केनापि हवा चोरिता, तया
विरहिणः वियोगिनः वयं गन्तुं चलितु न शक्ताः । हे भिक्षो !
सव कामिनी ? यस्तोति शेष इति केनापि पृष्ठे, नहि नहि
कामिनी मम नास्ति नास्ति प्राणप्रिया यष्टिका अवलम्बनदण्ड
इत्यर्थः ।
यत्र गोपनीयमय कथञ्चन द्योतयित्वा पश्चादन्यथा-
करणात ग्रुपद्धतिरलङ्कार, "गोपनीय कमप्यर्थं द्योतयित्वा
/ कथञ्चन । यदि श्लेषेषान्यथा वाऽन्यथयेत् साप्ययद्भुतिः ॥" इति
लक्ष्यात् । शार्दूलविक्रीड़ित वृत्तम् ॥ ४८ ॥
 
अर्हे इति । अद्धे चेतसि चित्तस्याडशेि इत्यर्थ., जानको
सोता तिष्ठतीत्यर्य., अहें च, अपरस्मिन्निति शेप, लङ्केश्वरः
रावय. परितपति परितस्तापं ददातीत्यर्थः । तचाई प्रथम-
मिति भाव, मदनानलः कामाग्नि कवलयति ग्रमति, अर्द्धञ्च,
द्वितोयमिति शेष, रोपानल' क्रोधाग्निः, कवलयतोत्वन्वयः,
जानको प्रति मदनानुराग: रावणं प्रति क्रोध इति भावः इत्ये
इयोरपि भयोः जेत_इति शेष, दुविधिः दुधं तस्य सङ्गमः
समागम: तस्य व्यतिकर: प्रभाव सुल्य, इस एकम् अंश
प्रथममिति भाव सुपाग्निना तुपानलेन दग्धम् अपरम्
 
अं द्वितोयमिति भाव, करोषाग्निना शुष्कगोमयानलेन
 
M