This page has not been fully proofread.

चतुर्थोऽवः ।
 
अस्माकमोशी कोर्त्तिरका भाया न रक्षिता ॥ ४७ ॥
लब्धव्यमर्थं लभते मनुष्यो, देवोऽपि तं वारयितुं न शक्तः ।
अतो न शोचामि न विस्मयो मे ललाटलेखो न पुनः प्रयाति ॥४८॥
या पाणिग्रहलालिता सुतरुणी तन्वी सर्वगोडवा,
गोरो स्पर्शसुखावहा गुणवती नित्यं मनोहारिणी ।
सा केनापि हता, तथा विरहियो (ता) गन्तुं न शक्ता वयं,
हे भिनी । तव कामिनी ? न हि न हि प्राणप्रिया यष्टिका ॥४८॥
 
सगरादिति । सगरात् मत्पूर्वपुरुषादिति भावः, मागरः
कोति: जातेति शेष, अश्वमेधोयाश्वान्वेषणे पातालगमनायें
पुत्रैः भूमिखननात् सागरो जात इति भावः) भगीरथात्
अपरात् पूर्वपुरुषादिति भाव, गङ्गा कीर्त्ति: जातेति शेषः,
सगरमुत्राणां कपिलकोपदग्धानाम् उद्धाराय भूतले गङ्गा
आनीता भगीरथेनेति भावः, अस्माकम् ईदृशी कीर्त्ति: यत् एका
अपिरवाध्याहार्थ्यः, एकापीत्यर्थ, वज्ररी भार्या दूरे आसतामिति
भाव, न रचिता न रचितुं शक्ता । अनुष्टुप् वृत्तम् ॥४७॥

 
लब्धव्यमिति । मनुष्यः लब्धव्यम् अर्थं लभते प्राप्नोति,
देवोऽपि तम् अर्थं वारयितुं न शक्तः न क्षमः । अतः कारणात्
न योचामि न दुःखं करोमि, न च मे सम विस्मयः चमत्कार-
बुद्धिः, अस्तीति शेष, ललाटलेख: विधाटलिपिः न पुनः
प्रयाति नैवान्यथा भवतीत्यर्थः । उपजाति वृत्तम् ॥ ४८ ॥
 
येति । या पाणिग्रहात् आरभ्य पाणिग्रहणेन करग्रहणेन
च लालिता सादरं पालितेत्यर्थः, सुवरुपी सुन्दरी युवती
सुनवीना च तन्वी कृशाङ्गी सुवंशोद्भवा महाकुलोद्भवा मुहु
वेणुसम्भवा च गौरी गौरवर्षा एकव निसर्गात् अन्यन्न
 
mana
 
[१६१]
 
1