This page has not been fully proofread.

[१६०]
 
महानाटकम् ।
 
एकस्य दुःखस्य न यावदन्तं गच्छाम्यहं पारभिवार्णवस्य ।
तावद्वितीयं समुपस्थितं मे विद्वेष्वनर्था बहुलोभवन्ति ॥ ४४ ॥
युक्तमेव हि कैकेय्या भरतस्याभिषेचनम् ।
भायमपि न यो रचेत् स कथं पालयेन्महीम् ॥ १५ ॥
भद्रं कृतं हि तातैन, येनाहं वनवासितः ।
 
एपापि हिन मे बुद्धिः क मृगः क्व हिरण्मयः ॥ ४६ ॥
सगरात् सागरः कीर्त्तिर्गङ्गा कीर्त्तिर्भगीरथात् ।
 
समुद्रमणि शोषयेत् समुद्रशोषणमिव हृदयशोषणमिति
भावः । धनुष्टुप् वृत्तम् ॥ ४३ ॥
 
एकस्येति । अहम अर्णवस्य समुद्रस्य पारमिव यावत्
एकस्य दुःखस्य अन्तं न गच्छामि, तावत् द्वितीयं दुःखं मे मम
समुपस्थितं, तथाहि अनर्था विपदः, दुःखानीत्यर्थः, विद्वेष
रन्ध्रेषु बहुलीभवन्ति विस्तृतिमापद्यन्ते इत्यर्थः । सामान्येन
विशेषसमर्थनरूपोऽर्थान्तरन्यासः । इन्द्रवजा वृत्तम् ॥ ४४
 
युक्तमिति । भरतस्य अभिषेचनं राज्ये नियोगः कैकेय्या
युक्तमेव उचितमेव हि यतः य. भायां पत्नीमपि न रक्षेत्
न रचितुं शक्नुयात् सः कथं केन प्रकारेण महो पृथिवीं
पालयेत् रचेत् ? नैव रचितुं शक्नुयादित्यर्थः । अनुष्टुप्
 
वृत्तम् ॥ ४५ ॥
 
भद्रमिति । येन तातेन पिता अहं वनवासितः वर्म
प्रेषितः, तेन सातेन भद्रं युक्तं हसं हि नम वनप्रेषणं पितु
रुचितमेवेत्यर्थः । मे मम एपा वुहिरपि न, प्रस्तीति शेष, यत,
मृगः क, हिरण्मयः काञ्चनमयः छ ? रन कयमपि नगन्य
हिरवमयत्वं मुम्भवतीति भावे । अनुष्टुप् वृत्तम् ॥ ४६॥