This page has not been fully proofread.

[२६]
 
महानाटकम् ।
 
होतहरकोदण्डे रामे परिणयोन्मुखे ।
५) पस्पन्दे नयनं वामं जानकोजामदग्न्ययोः ॥ ३८ ॥
रामेण धनुषि महोते लक्ष्मण वाक्यम् ।
पृथ्वि ! स्थिरा भव, भुजङ्गम ! धारयैनां,
त्वं कूर्मराज ! तदिटं द्वितयं दधीथाः ।
 
-
 
भवतो वाक्यात् श्रादेशात् कौतुको समुत्सुकः, सत्वरः सन्निति
यावत् । वीर ! पश्य भवतो वाक्यादहं कौतुकीत्यत्र पश्य पश्य च
वलं मृत्यस्य यत् कौतुकमिति पाठे भृत्यस्य मम बलं पश्य यच
कौतुकं तत् पश्येत्यर्थः । अहम् एनत् धनुः प्रोडर्तुम् उत्तोल-
यितु' प्रचलावितुं स्थानान्तरं नेतुमित्यर्थः नमयितुं नम्त्रोक
भङ्क् खण्डयितुञ्च मदा सर्वस्मिन् काले तमः शक्तः । मोर्चु
प्रतिनामित प्रचलितुं नेतुं निहन्तुं चम इति पाठे प्रतिनामितुं
नम्त्रोकतु प्रचलितुं गुग्णारोपणेन सञ्चालयितुं नेतुं स्थानान्तरं
प्रापयितु निहन्तुं नाशयितुं, भकुमित्यर्थः, चमः भक्त इत्यर्थ ।
 
ममैवावेशी शक्तिः भवतां तु ईश्वराणां किमु वक्तव्यमिति
यमिति ।
 
ध्वन्यते । शार्दूलविक्रीडितं वृत्तम् ॥ ३८ ॥
 
गृहीत इति । गृहीतं हरस्य कोदण्डः धनुर्येन तथोक्त
अतएव परिणयोन्म खे सौतालाभाभिमुखे सति जानको जाम-
दग्न्ययोः सीता-भार्गवयोः वामं नयनं पस्पन्दे अस्फुरत् ।
स्त्री वामाचिस्पन्दनं शुभसूचकं पुंसान्तु अशुभसूचकमाह
वसन्तराज:– "चतुर्वामं मृगट्टशी जयकारि भृशं तथा । तदेव
पुरुषस्थागत् स्फुरितं भयशंसनम् ॥" इति । अनुष्टुप् वृत्तम् ॥३८॥
पृथ्वोति । हे पृथ्वि ! त्वं स्थिरा भव न कम्पवेति भावः,
स्थिरत्वादेः सिद्धत्वेऽपि उपलवसम्भावनया यत्नातिशयोति