This page has not been fully proofread.


 
[१५४]
 
महानाटकम् ।
 
रे रे निर्दय दुर्निवारमदन ! प्रोत्फुल्लपङ्गे रुहान्,

बाणान् सहणु संहणु, त्यज धनुः, किं पौरुषं मां प्रति ।
कान्तायास्तु वियोगजातहुतभुगज्वालाप्रदग्धं वपुः,
शूराणा मृतमारणे न हि परो धर्मः मयुक्तो बुधैः ॥ ३३ ॥
आपुङ्खाग्रमी शरा मनसि मे मग्नाः समं पञ्च ते,
निर्दग्धं विरहाग्निना वपुरिदं तैरेव साई मम ।
तत् कन्दर्प ! निरायुधोऽसि भवता जेतुं न शक्तः परो
दु.खी स्यामहमेक एव, सकलो लोक: सुखी (खं ) जीवतु ॥ ३४॥
 
कल्पान्त इवावभासते इत्यर्थः । उपमालङ्कारः । शार्दूलविक्रो-
ड़ितं वृत्तम् ॥ ३२ ॥
 
7
 
रे इति । रे रे निर्दय निष्ठुर ! दुर्निवार। अप्रतिसमा
धेय मदन मोत्फुल्ला. प्रकर्षेण विकम्बरा इत्यर्थ, पढेरुहा
पद्मा: तान्, श्रव परुहशब्दस्य पुंलिङ्गता पूर्ववत् सोदव्यो ।
बापान भरान् संवृणु मंत्रण मा मुच मा मुञ्चेति भावः, धनु
कार्मुकं त्यज मा प्रति पौरुषं पुरुषकार, पराक्रम इत्यर्थ',
किम् ? किमर्थमित्यर्थ, वपु. शरीरन्तु समेति शेष, कान्ताया'
वियोग एव जात उत्पन्न यो हुतभुक् अग्नि तस्य ज्वालाभि
शिखाभि प्रकर्षेण दग्ध नृतोऽहमिति भावे, नृतस्य मारणे
शूराणां बलवता परो महान् धर्मर्म बुधैः विद्धि न हि नैव
प्रयुक्तः कथितः, मृतोपरि प्रहारो न पौरुषायेति भाव ।
शार्दूलविक्रीडितं वृत्तम् ॥ ३३ ॥
 
आपुड्ढाग्रमिति । ते तव अमी पञ्च
भरा. आापुह्वायं
पुङ्खाग्रपर्यन्तं समं युगपदेव मे मम मनसि मग्ना, निपतिताः
मम इदं वपुः शरीरं विरहाग्निना वियोगानलेन कर्चा