This page has not been fully proofread.

चतुर्थोऽङ्कः ।
 
चन्द्रचण्डकरायते, मृदुगतिर्वातोऽपि वव्जायते
 
माला सूचिकुलायते, मलयजालेपः स्फुलिङ्गायते ।
पालोक स्तिमिरायते, विधिवशात् प्राणोऽपि भारायते,
हा हन्त ! प्रमदावियोगसमयः संहारकालायते ॥ ३२ ॥
 
[९५३)
 
एवं दुःसहेः पञ्चभिः तापैः सहितं युक्त तस्मिन् मध्ये अभ्यन्तरे
ध्यायता चिन्तयता, पञ्चाग्निसाध्यं रापयरतेति भावः मया,
प्रजागरभरैः निद्राविरहातियः कति वा कियतीर्वा अत्यन्त
दीर्घा: अतिमहत्यः चपाः रात्रयः
रात्रय: नेप्यन्ते प्रतिवाद्धन्ते ?
नातिवादयितुं शक्या इति भावः । भार्दूलविक्रीड़ित
 
वृत्तम् ॥ ३१ ॥
 
चन्द्र इति । चन्द्रः चण्डकर: उप्परश्मि: तहदाचरतीति
चण्डकरायते तोव तापयतीति भावः, मृदुगतिः मन्दसञ्चारो
बातोऽपि पवनोऽपि वचमिव आचरतीति वज्जायते शरोरे
वज्रमिव स्मृगतोत्वर्थ । माला पुष्पस्रक, माध्यमिति पाठा-
न्तरम्, सूचिकुलमिव प्राचरति सूचिपक्लिरिव विध्यतीति
भावः । मलयजस्य चन्दनस्य श्रालेपः प्रलेपः स्फुलिङ्ग: अग्निकण:
स इराचरति स्फुलिङ्गायते अग्निकणवत् आलिम्पतीति भावः,
"विपु स्फुलिङ्गोऽग्निकण." इत्यमरः । आलोक: उद्योतः,
"श्रलोकी दर्शनोद्योती" इत्यमरः, तिमिरमिव भाचरति अन्ध
कारवदाभासोति यायत्, भालोकस्तिमिरायते इत्यत्व रात्रिः
कम्पगतायते इति पाठान्तरम् । किं बहुना विधिवशात्
दुर्दैववशात् प्रायोऽपि नोयनमपि भारायते भार इवाचरति,
अपगमे सुखं जनयतोति भावः । हाइम्त इति खेदातिशये,
प्रमदायाः प्रेयस्याः वियोगसमयः संहारकाल इवाचरति